"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
देवस्थानमेतत् सप्तसु परशुरामक्षेत्रेषु अन्यतमम् इति अपि एतेषु पुराणेषु प्रतिपादितम् अस्ति । देवस्थानस्य शिखरं पाण्डयशैलीम् अनुसृत्य निर्मितम् अस्ति । तस्य औनत्यम् १००पादपरिमितम् अस्ति । शिखरस्य मूलशिलास्थापनं १५६६ तमे वर्षे अभवत् । देवस्थानम् पद्मतीर्थनामकस्य सरोवरस्य तीरे अस्ति । देवस्थाने ३६५ शिलाशासनानि उपस्थापितानि सन्ति । तस्य पुरतः ८०पादपरिमितः ध्वजस्तम्भः अस्ति । शिखरस्य अधः नाट्यशाला निर्मिता तत्र वर्षे द्विवारं [[कथक्कली]]नृत्योत्सवः दशदिनपर्यन्तं प्रचलति ।
१८ शतके पद्मनाभदेवस्थानस्य समस्तसम्पत् अष्ट-आळ्वाराणां नियन्त्रणे आसीत् । १७५०तमवर्षस्य जनवरीमासस्य तृतीयदिनाङ्के राजा मार्ताण्डवर्मा तिरुवाङ्कूरसाम्राज्यं पद्मनाभस्वामिपदतले समर्प्य “अहं तथा मदीया सन्ततिः पद्मनाभस्य दासाः भूत्वा जीवनं यापयामः” इति प्रतिज्ञां कृतवान् । सः आत्मानम् ‘पद्मनाभदासः’ इति वदति स्म । ततः प्रभृतिः तिरुवाङ्कूरुसाम्राज्यस्य प्रतिराजस्य नाम पद्मनाभदास इति प्रसिध्दम् । राजवंशस्य स्त्रियः पद्मनाभसेविकाः इति नाम्ना प्रसिध्दाः सन्ति ।
==तिरुवा्ग्कूरुसाम्राज्यस्यतिरुवाङ्कूरुसाम्राज्यस्य राजानः==
* मार्ताण्डवर्मा – १७२९-१७५८