"कंसः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५:
 
==कंसवधः==
कथञ्चिदपि कृष्णस्य हननं भवेदेव इति विचित्नयन् कंसः बालकृष्णं मारयितुं पूतना, शकटः, धेनुकः, यमलार्जुनः केशी, इत्यादीन् चित्रविचित्रान् मायाविराक्षसान् सम्प्रेषितवान् । ते सर्वेऽपि क्षुद्राः बालकृष्णेन हताः । कृष्णे तारुण्ये आगते मन्तिणा अक्रूरेण [[बलरामः|बलरामं]] [[श्रीकृष्णः।श्रीकृष्णं]] च [[मथुरा|मथुराम्]] आनायितवान् । कंसस्य राजभवनस्य प्रवेशद्वारे एव कुवलयपीडः इति मत्तगजं कृष्णबलरामयोः वधार्थम् अत्यजत् । कृष्णः गजं हत्वा बलरामेण सह कंससभा प्राविशत् । तत्र बलरामकृष्णवधार्थं सिद्धौ चाणूरमुष्टिकौ मल्लयुद्धेन संहार्य कंसवधं कृतवन्तौ । पश्चात् श्रीकृष्णः उग्रसेन पुनः सिंहासने उपावेशितवान् ।
 
 
"https://sa.wikipedia.org/wiki/कंसः" इत्यस्माद् प्रतिप्राप्तम्