"कुशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६:
==शिक्षा पराक्रमः च==
[[वाल्मीकिः]] कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् [[वाल्मीकिः]] स्वरचितं २४सहस्रश्लोकयुक्तं [[रामायणम्]] एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । शत्रुघ्नः तं रथे संस्थाप्य अश्वं मोचयित्वा अयोध्यभिमुखं प्रस्थितः । सहसा एतम् उदन्तं श्रुत्वा कुशः सधनुर्बाणः शत्रुघ्नं विरुद्ध्य युद्धमकरोत् । युद्धे शत्रुघ्नः लवेन पराजितः मूर्छितः च । कुशः [[लवः|लवं]] विमोचयित्वा अश्वमपि स्वीकृत्य निर्गतः । वार्तामिमां श्रुत्वा अयोध्यावासी श्रीरामः सेनासहितं [[लक्ष्मणः|लक्ष्मणं]] तत्र प्रेषितवान् । बालयोः पाराक्रमस्य पुरतः सोऽपि मूर्छितः, पश्चादागतः [[भरतः]] अपि तामेव दशाम् अवाप्नोत् । अन्ते बालाभ्यां सह योद्धुम् आगतः श्रीरामः तौ दृष्ट्वा अन्तरङ्गस्नेहात् शस्त्रप्रयोगं कर्तुं न शक्तवान् । किन्तु बालौ तम् आक्रम्य प्रयुध्य रामं मूर्छितम् अकुर्वन् । अत्रान्तरे यज्ञार्थं वरुणलोकं गतः वाल्मीकिः आगत्य वार्तां श्रुत्वा सहसा रणरङ्गम् आगतवान् । लवकुशयोः समरकौशलं दृष्टवा सन्तुष्टः तौ प्राशंसत् । स्वामृतदृष्ट्या रामादीन् सर्वान् सचेष्टितान् अकरोत् । पश्चात् सीतां कुशलवौ च रामाय समर्पितवान् । श्रीरामः मुनिं वाल्मीकिं नमस्कृत्य बहुप्रशंस्य सपुत्रकलत्रं परिवारेण सह आयोध्यमागत्य अश्वमेधयज्ञं समापयत् ।
 
{{रामायणम्}}
 
[[वर्गः:अयोध्याकुलम्]]
"https://sa.wikipedia.org/wiki/कुशः" इत्यस्माद् प्रतिप्राप्तम्