"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying az:Qaumata (Budda)
(लघु) r2.7.3) (Robot: Modifying az:Qautama (Budda); अंगराग परिवर्तन
पङ्क्तिः १८:
सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बु- द्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।

विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः धातुकथाः,धम्मसंगतिः,विभंगः,पट्ठान-प्रकर-णम्,कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।
== बौद्धधर्मस्य आचारमीमांसा ==
सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अ-ध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- (१) दुःखं (२) दुःखसमुदयः (३) दुःखनिरोधः (४) दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।

बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – (१) जरामरणम्, (२) जातिः, (३) भवः, (४) उपादानम्, (५) तृष्णा, (६) वेदना (७) स्पर्शः, (८) षडायतनम् (९) नामरूपम् (१०) विनयम् (११) सं- स्कारः (१२) अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सि- द्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।

प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्ध- तां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।

तृतीयम् आर्यसत्यम् दुःखनिरोधात्मकमस्ति । तस्य तात्पर्यमस्ति यत् कार्यं कारणम् आश्रित्य तिष्ठति । चेत् कारणध्वंसः स्यात् तदा कार्यमपि स्वतो ध्वस्तं भवेत् । एवं चेत् मूलकारणरूपम् अविद्यां विद्यया उन्मूलितां कुर्यात् तदा तज्जन्यं किमपि कार्यं न भवितुं शक्नोति ।

चतुर्थम् आर्यसत्यं निर्वाण इत्यस्ति । अस्य प्राप्तै बुद्धेन मध्यममार्गस्य उपदेशः प्रदत्तः । अर्थात् निर्वाणप्राप्तये कठोरव्रतोपवासादीनामावश्यकता नापेक्षते,न च सर्वथा श्रमरहितम् आचरणं वा प्रशस्यते । उभयोर्मध्ये किमपेक्षणीयमिति विचार्य भगवता बुद्धेन यः मार्गः प्रतिष्ठापितः स एव मध्यममार्गोऽस्ति । अस्य मध्यममार्गस्य अष्टौ अङ्गनि सन्ति,अतएवायं अष्टाङ्गिकोमार्ग इत्यपि कथ्यते ।

== अष्टाङ्गिकमार्गः ==
बुद्धप्रतिपादितस्यास्य मध्यममार्गस्य अष्टौ अङ्गानि एवं प्रकारेण सन्ति-सम्यक् व्यायामः,सम्यक् स्मृतिः,सम्यक् समाधिश्चेति । अस्य अष्टाङ्गिकमार्गस्य सम्यक् पालनेन निर्वाणः प्राप्यते,एतादृशी बौद्धानां मान्यताऽस्ति ।

एवं प्रकारेण भगवान् बुद्धः अविद्याया मूलकारणं मत्वा ज्ञानेन तत्परिमार्जनस्य महत्वं प्रतिपादि- तवान् । शुद्धं ज्ञानं शुद्धां मनोवृत्तिं विना नैव प्राप्यते । शरीरशुद्धये भगवता बुद्धेन शीलसमाधिप्रज्ञादीनां महत्त्वं प्र-तिपादितम् । शीलस्य अन्तर्गतं अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाणां समावेशो भवति । अत्र नैतिकसुखसाध-नानां परित्यागोऽपि गृहीतः । समाधिः द्वितीयं साधनमस्ति । समाधेः पूर्व जन्म-स्मृति-उत्पत्ति-विनाशादीनां ज्ञानं बाधकनियमानां बोधश्चापेक्षते । प्रज्ञा तृतीयं साधनमुच्यते । प्रज्ञाऽपि त्रिधा प्रतिपादिता-श्रुतमयी प्रज्ञा,चिन्तामयी प्रज्ञा,भावनामयी प्रज्ञा चेति ।

== बौद्धचिन्तनस्य दार्शनिक आधारः ==
बौद्धदर्शनस्य यच्चिन्तनसमग्रं वर्तते तस्य आधारः अध्यात्मवादो नास्ति । बौद्धचिन्तनस्तु संघात-वादसत्तावादयोरेव विस्तारोऽस्ति । आत्मचिन्तनं दुःखनिवृत्तेर्मुख्यं साधनमस्ति,तथापि बुद्धेन आत्मनोऽस्तित्वमेव निराकृतम् । तन्मतानुसारेण आत्मा केवलं मनोवृत्तीनां पुञ्जमात्रमस्ति । यतोहि मानसप्रवृत्तिभ्योऽतिरिक्तं तस्यात्म-तत्वस्य किमपि अस्तित्वं नास्ति । तत् आत्मतत्त्वन्तु रूप-वेदना-संज्ञा-संस्कार-विज्ञानादीनां पञ्चस्कन्धानां समुच्चयो-ऽस्ति । रूपं भौतिकः पदार्थोऽस्ति । कस्यपि वस्तुनः साक्षात्करः संज्ञा भवति । तया संज्ञया उत्पन्नयोः सुखदुःखयोर-थवा औदासीनस्य भावो वेदना कथ्यते । भूतकालिकेन अनुभवेन उत्पद्यमानः,स्मृतिकारणभूतानां मानसिकप्रवृत्तीनां स्वभावः संस्कारोऽस्ति । अयमेव चैतन्यविज्ञानमिति नाम्ना ज्ञायते ।

आत्मनः स्वरूपं स्पष्टीकर्तुं नृपो नागसेनो मिलिन्दे रथस्य प्रत्येकम् अवयवस्य सम्बन्धे प्रश्नं करो-ति,मिलिन्दश्च प्रत्येकस्य प्रश्नस्य नकारात्मकम् उत्तरं प्रददाति । वस्तुतः स्वतन्त्ररूपेण अश्वाः रथं न सन्ति,न च वल्गा एव रथमस्ति,काष्ठमयं शकटमपि रथं नास्ति । एतादृश्यां स्थितौ रथस्य प्रत्येकम् अवयवाः रथं सन्तीति स्वीक्रियते। तथैव स्वतन्त्ररूपेण कश्चिदपि आत्मा नास्ति । अपितु व्यवहारे दृश्यमाणानां भौतिकाना मानसिकानाञ्च व्यापाराणां समूह एव आत्मा उच्यते ।

सन्तानवादः- बौद्धदर्शनानुसारं जीवो जगच्चेत्युभयमेव अनित्यमस्ति । इदं स्कन्धपञ्चकं स्थिरं ना-स्ति । क्षणे क्षणे चैतत् परिवर्तितं भवति । यथा दीपस्य ज्वाला सततमेकैव दृश्यते,किन्तु सा प्रतिक्षणं परिवर्तते । त-दानीम् इदमनुभवोऽपि नैव जायते यत् तैलवर्तिकयोः संयोगाद् दृश्यमाणा दीपशिखा प्रतिक्षणं नूतनं तैलं वर्तिकांश-ञ्च ज्वालयितुं तस्मित्रेव प्रविष्टा भवति । एवं प्रकाशशिखारूपेण पूर्वतो विद्यमाना ज्वाला विनश्यत्येव । बौद्धदर्शने मुख्यतः परिणामस्य सिद्धान्तोऽभिमतोऽस्ति । अतो जगतःसत्यत्वमेकशोऽस्वीकृतम् अकुर्वाणैः तस्य परिणामात्मकता स्वीकृता । परिणाम एव सत्यमस्ति किन्तु अस्य परिणामस्य मूले किमप्यन्यत् सत्यतत्वं नास्ति । बुद्धस्य वैचारिक-सूक्ष्मताया एषाऽद्वितीया कल्पना वर्तते ।
== बौद्धदर्शनस्य धार्मिको विकासः ==
बौद्धधर्मे महायानसम्प्रदायः थेरावादं स्वीकृतवान्,अतएव तस्य अपरा हीनयानसंज्ञाऽपि सञ्जाता। बौद्धधर्मस्य विविधेषु यानेषु बोधविषये अर्थात् जीवनमुक्तिनिरूपणविषये एकरूपता नास्ति । एषां त्रयाणां यानानां तिस्रो जीवनमुक्तयः सन्ति-श्रावकबोधिः, प्रत्येकबुद्धबोधिः,सम्यक् सम्बोधिश्चेति । एषां सर्वेषां साधनापद्धतिः भिन्नाऽस्ति । बौद्धदर्शनस्य विकासो बौद्धधर्मेण सह नैव जातः । यदा बौद्धधर्मस्य प्रचण्डः प्रचार आसीत् तदा बौद्धदर्शनस्य सिद्धान्ताः अस्तंप्राया आसन् । किन्तु यदा कदा बौद्धविदुषां बुद्धोपदेशानां गाम्भीर्ये प्रवेशो जातः,तदारभ्य बौद्धधर्मः स्वत एव शिथिलो जातः ।

== चत्वारः सम्प्रदायाः ==
प्रारम्भे बौद्धदर्शनं चतुर्षु सम्प्रदायेषु विभक्तमासीत् । एषां सम्प्रदायानां नामान्यासन्-वैभाषिक-सम्प्रदायः,सौत्रान्तिकसम्प्रदायः,योगाचारसम्प्रदायः,माध्यमिक सम्प्रदायश्च ।
=== वैभाषिकसम्प्रदायः ===
वैभाषिकमतानुसारेण इन्द्रियजन्यज्ञानमयस्य बाह्मजगतो मिथ्यात्वं नैव भविंतु शक्नोति ।आन्तरतत्त्वस्य मनसोऽपि स्वतन्त्रा सत्ताऽस्ति । बाह्मपदार्थानां ज्ञानाय इन्द्रियाणाम् आन्तरतत्त्वेन सहयोगस्य आवश्यकता नास्ति । आन्तरतत्त्वान्यपि बाह्मपदार्थनिरपेक्षं ज्ञानं प्रति कारणभूतानि वर्तन्ते । एवमुभयोः पदार्थयोः स्वतन्त्रसत्ता सिद्ध्यति ।
=== सौत्रान्तिकसम्प्रदायः ===
सौत्रान्तिकमते बाह्मार्थानुमेयवादः स्वीक्रियते । एतदनुसारेण बाह्मपदार्था इन्द्रियज्ञानगम्या न सन्ति । यतो हि पदार्थाः क्षणिकाः सन्ति,परिणामस्वरूपं इन्द्रियार्थसन्निकर्षकाले ज्ञानानुभवकाले च पदार्थाः परिवर्तिता एव जायन्ते । अतएव तस्मिन् क्षणे पदार्थान्तरमेव अभिमुखं भवति । एवं बाह्मपदार्थानां सत्ता प्रत्यक्षगम्या नास्ति,अनुमानेनैव तद् विज्ञायते । अयं सिद्धान्त एव बाह्मार्थानुमायेववादो भवति ।
=== योगाचारसम्प्रदायः ===
योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्व एव स्वीकर्तुं नैव शक्यते,यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधा-रेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति,अतएव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चितं मनस् इत्याद्या विज्ञानस्यैव संज्ञाऽस्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते,मनःक्रिया सम्बन्धवशादेव मन इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।
=== माध्यमिकसम्प्रदायः ===
माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति,आन्तरपदार्थोऽपि सत्यं नास्ति,विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते ।शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति,न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति ।

इदमेव बौद्धदर्शनस्यान्तिमं सत्यमस्ति । तथाहि सर्वप्रथमं वैभाषिकसम्प्रदायेन बाह्यार्थस्य प्रत्यक्षसत्ता स्वीकृता । तत्पश्चात् सौत्रान्तिकेन बाह्यार्थानुमेयवादस्य सिद्धान्तः प्रतिपादितः । तदनन्तरं योगाचारेण विज्ञानमात्रस्य सत्ता अङ्गीकृता । अन्ते च माध्यमिकेन शून्यमेव परमतत्त्वमिति संसाधितम् । एषु सम्प्रदायेषु वैभाषिकः हीनयानं स्वीकरोति,अवशिष्टाश्च त्रयः सम्प्रदायाः महायानं स्वीकुर्वन्ति ।
== शून्यवादे सत्यस्य समीक्षा ==
शून्यवादिनां बौद्धानां मतानुसारेण सत्यं द्विविधमस्ति-व्यवहारिकं पारमार्थिकं च । लोकव्यवहारे प्रचलितं सत्यं व्यावहारिकं स्वीक्रियते । अस्यैव अपरं नाम सांवृतिकम् इत्यपि वर्तते । पारमार्थिकं सत्यं तु अनुपन्नम् अनिरुद्धम् अनुच्छेद्यम्,अशाश्वतं चास्ति । पारमार्थिकं सत्यं बुद्धिगम्यं नास्ति ।संवृत्तिर्नाम आच्छादनक्रियाया अस्ति। एवं सांवृत्तिकं तद्भवति यद् हि आच्छादकं भवति । आच्छादकं तत्त्वन्तु अविद्या वर्तते । तयैव अविद्यया यदा अन्यत् तत्त्वम् आच्छाद्यते,तदा व्यावहारिकस्य सत्यस्य उदयो भवति ।

बौद्धेरपि अविद्यास्वरूपिण्या मायायाः कार्यद्वयं स्वीकृतम्-(१) स्वभावदर्शनस्यावरणं (२) तत्र चासत्पदार्थस्वरूपस्यारोपणम् । शून्यवादिभिः सेवृत्तिरपि द्विधा विभक्ता-(१) तथ्यसंवृत्तिः (२) मिथ्यासंवृत्तिश्चेति । पदार्थस्य यथार्थं परिज्ञाने तथ्यसंवृत्तिर्भवति किन्तु अयथार्थज्ञाने मिथ्यासंवृत्तिरस्ति । उभयोः संवृत्योर्माध्यमेन गृहीतं ज्ञानं सांवृत्तिकं भवति । तदेव व्यावहारिकं सत्यमपि उच्यते । सांवृत्तिकं सत्यमेव पारमार्थिकसत्यस्य साधनमप्यस्ति ।

पङ्क्तिः ७६:
[[as:বৌদ্ধ ধৰ্ম]]
[[ast:Budismu]]
[[az:QaumataQautama (Budda)]]
[[bar:Buddhismus]]
[[bat-smg:Budėzmos]]
"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्