"लवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sita with Lava Kusha.jpg|thumb|right|Sita with Lava Kusha]]
अयं लवः अपि रामायणस्य किञ्चन महत्त्वयुतं पात्रम् । एषः लवः [[रामः|राम]][[सीता|सीतयोः]] पुत्रः । महाराजस्य [[दशरथः|दशरथस्य]] पौत्रः । [[कुशः]] अस्य सहोदरः । अनेन निर्मितः एव लवकोटिपुरम् अद्यतन लाहोर् नगरम् । [[रामः|श्रीरामचन्द्रेण]] [[सीता|सीतायां]] जातयमलयोः ज्येष्ठः कुशः । कनीयः [[लवः]] । [[वाल्मीकिः|वाल्मीकिमुनेः]] आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । । श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण [[सीता]] तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नाम कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।
अयं लवः अपि रामायणस्य किञ्चन महत्त्वयुतं पात्रम् । एषः लवः [[रामः|राम]][[सीता|सीतयोः]] पुत्रः । महाराजस्य [[दशरथः|दशरथस्य]] पौत्रः । [[कुशः]] अस्य सहोदरः ।
 
==वीरकथा=
कदाचित् सीता अतिशीघ्रं पत्युः समागमः कथं भविष्यति इति वाल्मीकिम् अपृच्छत् । तदा वाल्मीकिः सुवर्णकमलैः प्रतिपदा नवमीपर्यन्तं श्रीरामस्य पादुके अर्चयति चेत् श्रीरामस्य दर्शनं शीघ्रं सम्भविष्यति इति उक्तवान् । मातुराशयं ज्ञात्वा लवः अयोध्यां गत्वा रामदूतैः सह आयुध्य जित्वा उद्यानात् स्वर्णकमलानि आनीय मातुः व्रतं सम्पूरितवान् ।
 
 
"https://sa.wikipedia.org/wiki/लवः" इत्यस्माद् प्रतिप्राप्तम्