"कुम्भकर्णः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
महाशूरस्य [[रावणः|रावणस्य]] अनुजः । परमधार्मिकः [[विभीषणः]] अपि अस्य कुम्भकर्णस्य सहोदरः ।
 
==ब्रह्नणः शापः==
==बाल्यपराक्रमः==
जन्मतः एव अस्य आकारः भयङ्करः । सद्योजातः एव सहस्राधिकजानान् निगलितवान् । एतत् श्रुत्वा इन्द्रः ऐरावतारूढः तत्रागत्य वज्रप्रहारम् अकरोत् । तदा कुम्भकर्णः ऐरावतस्य दन्तमेकं भञ्जयित्वा युद्धमकरोत् । पराजितः इन्द्रः ततः पलायितः ब्रह्माणं वार्तां प्रापितवान् । ब्रह्मा बर्षे बहुकालं निद्रां कुर्वाणः भवतु इति शापरूपं वरं दत्तवान् । ब्रह्मा विश्रवसस्य प्रार्थनां श्रुत्वा भवतः पुत्रः वर्षे एकं दिनं जागरितः भवति इति प्रतिवरं दत्तवान् । कञ्चित्कालाननन्तरं कुम्भकर्णः गोकर्णक्षेत्रं गत्वा तत्र ब्रह्माणम् उद्दिश्य घोरं तपः समाचरत् । तपसः देवाः भीताः ब्रह्माणं प्रार्थयन् । ब्रह्मा देवेभ्यः अभयं दत्तवान् । कुम्भकर्णं सम्भ्रान्तं करोतु इति देवीं सरस्वतीम् उक्त्वा ब्रह्मा वरं दातुं कुम्भकर्णस्य पुरतः प्रत्यक्षः अभवत् । वरं यचितुं ब्रह्मणि पृष्टे सति निद्रां ददातु इति अयाचत । ब्रह्मा तथास्तु इति उक्त्वा गतवान्
 
==अग्रिमजीवनम्==
कुम्भकर्णः पातालस्य [[बलिचक्रवर्ती|बलिचक्रवर्तिनः]] पुत्रीं वृत्रजालां परिणीय कुम्भः निकुम्भः इति पुत्रौ प्राप्तवान् । यदा रावणं कुबेरं जित्वा [[लङ्का]]पुरीं प्राप्तवान् तदा तत्र आगतवान् । ततः पूर्वं श्लेष्मातकः इति प्रदेशे वसति स्म । रावणेन सीतापहरणस्यपश्चात् [[हनूमान्]] [[लङ्का|लङ्कां]] प्रविश्य [[सीता|सीतां]] दृष्ट्वा वार्तालापं कृत्वा राक्षसा भाययित्वा लङ्कां वह्निना ज्वालितवान् । पश्चात् जागरितः कुम्भकर्णः सर्वं वृत्तान्तं ज्ञात्वा रावणस्य निकटं गत्वा श्रीरामं शरणङ्गत्वा सीतां प्रत्यर्पयितुं सूचितवान् । किन्तु रावणेन तत् न अङ्गीकृतम् । तदा कुम्भकर्ण रावणस्य अविवेकं दूषयन् प्रत्यागतवान् । कतिपयदिनानां पश्चात् रामरावणयोः महायुद्धम् अभवत् । रावणस्य सैनिकाः बान्धवाः सर्वे हताः । अपि च कुम्भकर्णस्य पुत्रौ अपि मृतौ । तदा रावणः अन्यथा मार्गम् अविज्ञाय अकाले कुम्भकर्णजागरणस्य व्यवस्थां कृतवान् । बहुप्रयासेन सेवकाः कुम्बकर्णं जागरितवन्तः । प्रबुद्धः कुम्भकर्णः सर्वसमाचारं ज्ञात्वा अग्रजस्य मूर्खत्वार्थं बहुधा शोचयन् सीतां रामाय समर्पयितुं पुनः न्यवेदयत् । तदापि विफलश्रमः कुम्भकर्णः युद्धरङ्गं प्रविश्य् भयङ्कररीत्य युद्धमकरोत् । अन्ते श्रीरामेण हतः सद्गतिमवाप्नोत् ।
 
 
"https://sa.wikipedia.org/wiki/कुम्भकर्णः" इत्यस्माद् प्रतिप्राप्तम्