"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८:
 
==रावणजननकथा==
पूर्वं कदाचित् ब्रह्मा अनेकान् जलजन्तून् निर्मीय तान् समुद्रजलस्य रक्षणं कर्तुं नियुक्तवान् । तत्र केचन प्राणयः अवदन् वयं रक्षणं कुर्मः । केचन अवदन् वयं पूजां कुर्मः इति । तदा ब्रह्मा अवदत् ये रक्षणं कुर्वन्ति ते राक्षसाः ये पूजां कुर्वन्ति ते यक्षाः इति कथ्यन्ते । राक्षसेषु हेति प्रहेति इति दौ सहौदरौ आस्ताम् । प्रहेतिः तपः कर्तुम् अगच्छत् । हेतिः भया इति कन्यं परिणीतवन् । दाम्पत्यफलेन विद्युत्कोशः इति पुत्रं प्राप्तवान् । विद्युत्कोशस्य कुकोशः इति पराक्रमी पुत्रः अभवत् । सुकेशः माल्यवान्, सुमाली, माली इति पुत्रत्रयम् अवाप्नोत् । त्रयः अपि ब्रह्मणः तपः कृत्वा लोकस्य अनुपमं प्रेम लभेम अपि च अस्मान् न कोऽपि परास्तान् न कुर्यात् इति वरम् अवाप्नुवन् । वरबलान्विताः एते सुरान् असुरान् च पीडयितुम् समारभन्त । ते विश्वकर्माणम् एकं सुन्दरं नगरं निर्मातुम् अवदन् । तदा [[विश्वकर्मा]] लङ्कानगरस्य सङ्केतम् उक्त्वा तत्र प्रेषितवान् । तत्र ते आनन्देन न्यवसन् । कालक्रमेण माल्यवतः वज्रमुष्टिः, विरूपाक्षः, दुर्मुखः, सुप्तघ्नः, यज्ञकोपः, मत्तः, उन्मत्तः, इत्यादीन् पुत्राः अभवन् । सुमालिः प्रहस्तः, अकम्पनः, विकटः, कालिकामुखः, धूम्राक्षः, दण्डः, सुपार्श्वः, संह्नादिः, प्रधसः, भरकर्णः इति पुत्रान् अलभत । माल्याः अनलः, अनिलः, हरः, सम्पातिः, इति पुत्रा अभवन् । एते सर्वेपि पुत्राः बलवन्तः दुराचारिणः एव अभवन् । प्रतिदिनम् ऋषिमुनीन् पीडयन्ति स्म । कष्टम् असहमानाः ऋषिमुनयः महाविष्णोः निकटम् अगच्छन् । साधूनां रक्षणं करिष्यामि इति सः आश्वसनं दत्तवान् । इमां वार्तां श्रुत्वा ते सर्वेऽपि राक्षसाः मिलित्वा मालिं सेनापतिं कृत्वा इन्द्रलोके आक्रमणम् अकुर्वन् । समाचारं प्राप्यः विष्णुः स्वास्त्रशस्त्राणि अवलम्ब्य राक्षसानां संहारं कर्तुमारब्धवान् । सेनपतिनासेनापतिना मालिना सह नैके राक्षसाः हताः । अवशिष्टाः लङ्कापरिमुखं प्रधाविताः । प्रधावन्तः राक्षसान् यदा नारायणः संहरन् आसीत् दता क्रुद्धः माल्यवान् युद्धभूमिमागतः । अन्ते भगवाता नारायणेन हतः अपि । शेषाः राक्षसाः लङ्कां त्यक्त्वा सुमाल्याः नेतृत्वेन पातालम् अगच्छन् । लङ्कायां कुबेरस्य राज्यं स्थापितम् अभवत् । बहुभागं राक्षकुलं नष्टंराक्षसकुलं विनष्टं विचित्य पुत्रीं कैकसीम् अवदत् । पुत्रि राक्षसानंराक्षसानां कल्याणार्थं भवती विश्रवस् (पौलस्त्यः) इति पराक्रमीं महर्षिं गत्वा तस्य सेवां कारोतु । प्रसन्ने तस्मिन्त् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पुतुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये चण्डवातः चलति स्म । आकाशे मेघाः गर्जति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवः (पुलस्त्यः) अवदत् । भद्रे भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति । तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् भगवन् भवन् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य् अविश्रवः अवदत् भवत्याः कनिष्टः पुत्रः सादाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति अकरोत् । पश्चात् क्रमेण [[कुम्भकर्णः]], [[शूर्पणखा]], [[विभीषणः]] आदीनां जन्म अभवत् । दशकण्ठः कुम्भकर्णः च अतीव दुष्टौ अभवताम् । किन्तु विभीषणः धर्मात्वा दयावान् च अभवत् । रावणः स्वसोदरात् वैश्रवणात् अपि पराक्रमशाली भवितुं ब्रह्माणम् उद्दिश्य तपः समाचरत् । प्रसन्नं ब्रह्माणं रावणः वरं प्रार्थितवान् यत् गरुडानागयक्षदैत्यदानवराक्षदेवैः मे मरणं नास्ति इति । मनुष्यः तु दुर्बलः भवति अतः मनुष्येण मरणं न भवतु इति वरं न पृष्टवान् । ब्रह्मा तथास्तु इति उक्त्वा तस्य इच्छाम् अपूरयत् । विभीषणः धर्मे अविचलितमतेः कुम्भकर्णः वर्षे अर्धकालं निद्रायाः च वरं प्राप्तवन्तौ ।
 
==रावणस्य विवाहः==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्