"विभीषणः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अयं विभीषणः अपि [[रामायणम्|रामायणस्य]] किञ्चिन महत्त्वभूतं पात्रम् अस्ति । सः महाशूरस्य [[रावणः|रावणस्य]] अनुजः । विभीषणः अत्यन्तं धार्मिकः अपि । रावणम् अपि धर्ममार्गं बोधयति सः । महावीरः [[कुम्भकर्णः]] अपि अस्य सहोदरः एव ।
==जन्मकथा==
पौलस्त्यमहामुनिना कैकसायां जातेषु चतुर्थं पुत्रः विभीषणः । पितुः आदेशानुसारं कैकसी पौलस्त्यस्य निकटं गत्वा तस्य सेवां कारोतु । प्रसन्ने तस्मिन्त् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पुतुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये चण्डवातः चलति स्म । आकाशे मेघाः गर्जति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवः (पुलस्त्यः) अवदत् । भद्रे भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति । तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् भगवन् भवन् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य् अविश्रवः अवदत् भवत्याः कनिष्टः पुत्रः सादाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति अकरोत् । पश्चात् क्रमेण [[कुम्भकर्णः]], [[शूर्पणखा]], [[विभीषणः]] आदीनांविभीषणःआदीनां जन्म अभवत् ।
 
==धर्मरतः==
विभीषणः गोकर्णक्षेत्रे तपः कृत्वा ब्रह्माणं परितोषयित्वा घोरविपत्तिकालेऽपि धर्मे मनः लग्नं भवेत्, मन्त्राभ्यसबलेन विना ब्रह्मास्त्रं स्वाधीनं भवेत् इति वरमवाप । चतुर्मुखः स्वेच्छया अस्मै चिरञ्जीविपदम् अनुगृह्तीतवान् । तैलूषः इति राक्षस्य पुत्रीं सममा इति कन्यां परिणीतवान् । [[हनूमान्]] रावणस्य अशोकवनिकां विध्वंसितवान् । तदा रावणः हनूमतः हननं कर्तुम् आदिष्टवान् । तदा विभीषणः दुतवधः अधर्मः इति उपदेशं रावणाय कृत्वा तेन तिरस्कृतः ।
 
 
"https://sa.wikipedia.org/wiki/विभीषणः" इत्यस्माद् प्रतिप्राप्तम्