"कन्नडभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying en:Kannada language
(लघु) r2.7.3) (Robot: Adding ur:کنڑا; अंगराग परिवर्तन
पङ्क्तिः २३:
भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटाकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम '''कन्नड''' इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाषते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटाकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं २५००वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च १९०००वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
 
== परिचयः ==
कन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति । कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।
 
== वर्धनम् ==
दक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते ।
कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -
पङ्क्तिः ३५:
गते शतके कन्नडभाषाभिवृद्धिः व्यापकतया जाता इति अवगम्यते । २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड् इति मत्वा नूतनयुगमिति परिगणनीयं भवेत् । अन्तर्जाले कन्नडभाषायाः उपयोगः व्यापकतया दृश्यते ।
 
== भौगोलिकव्याप्तिः ==
 
कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।
 
== अधिकृतमान्यता ==
कन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।
 
== कन्नडवर्णमाला ==
कन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।
 
 
=== वर्णमाला ===
 
[[चित्रम्:Old-Kannada inscription at Arasikere Ishwara temple.jpg|250px|thumb|right|कन्नडलिपिशिलालेखः]]
== साधाराः ==
{{reflist}}
== बाह्यानुबन्धाः ==
* [http://brahmi.sourceforge.net/docs/KannadaComputing.html Description of the Kannada language]
* [http://www.unicode.org/charts/PDF/U0C80.pdf Official Unicode chart for Kannada (PDF)]
पङ्क्तिः ६५:
* [http://www.chilume.com Kannada Literature]
* [http://www.kannadahanigalu.com Kannada Hasya Kavana Hanigavana]
 
[[वर्गः:भारतीयभाषाः]]
 
Line १३१ ⟶ १३२:
[[ug:كانناداچە]]
[[uk:Каннада]]
[[ur:کنڑا]]
[[vi:Tiếng Kannada]]
[[wuu:卡纳达语]]
"https://sa.wikipedia.org/wiki/कन्नडभाषा" इत्यस्माद् प्रतिप्राप्तम्