"धर्मपुरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding en:Dharmapuri district
No edit summary
पङ्क्तिः ११८:
 
==इतिहासः==
तगदूरुप्रदेशस्यतगडुरुप्रदेशस्य (अद्यतनधर्मपुरी) विज्ञातः प्राचीनतमः प्रशासकः सङ्गमकालस्य आदियमान् नेडुमान् अञ्जिः । तस्य आश्रये एव प्रसिद्धा कवयित्री [[अव्वैयार्]] आसीत् । अग्रे अस्य प्रदेशस्य उल्लेखः क्रितीयेक्रिस्तीये अष्टमशतके श्रूयते, यदा सेलम्[[सेलं मण्डलम्|सेलं मण्डलस्य]] उत्तरभागाः [[पल्लवाः|पल्लवप्रशासने]] आसन् । ततः गङ्गपल्लवाः सेलम्’सेलं मण्डलस्य’मण्डलस्य पश्चिमभागान् अपि जितवन्तः । अष्टमशतमानस्यअष्टमशतकस्य अन्ते पश्चिमगङ्गाः बारामहलस्य अपि प्रशासकाः आसन् इति श्रूयते ।
 
नवमशतकस्य आरम्भे [[राष्ट्रकूटाः]] बलं प्राप्य अग्रिमयोः द्वयोः शतमानयोः अस्मिन् मण्डले प्रभावयुताः आसन् । ततः सेलम् मण्डलस्य पूर्णः भागः [[चोळाः|चोळैः]] जितः । तदा गङ्गवाडी चोळप्रशासनस्य भागः भूत्वा अडिगमान् तगडूरस्य अधीनतया स्थापितम् । द्वादशशतमानेद्वादशशतके चोळानाम् अवनतिः अभवत् । [[होय्सळाः]] प्रबलाः भूत्वा चोळान् गङ्गवाडीतः प्रभ्रष्टान् कृतवन्तः । तदा यद्यपि बारामहल् तथा तलघाट् प्रदेशौ चोळप्रशासने एव शिष्टौ, तथापि अडिगमान् प्रदेशः प्रायः स्वतन्त्रः अभवत् । नाममात्रेण तत्र चोळानां प्रभावः आसीत् ।
 
चतुर्दशे शतमानेशतके [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] उदयः अभवत् । १३६५-६६ समये प्रथमः [[बुक्कराजः]] मधुरैप्रदेशस्य[[मधुरै]]प्रदेशस्य देहली सुल्तानान्देहलीसुल्तानान् पराजितवान् । ततः सेलम्सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनम्अधीनः अभवत् । ताळिकोटसमरानन्तरं[[ताळीकोटे]]टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।
 
[[श्रीरङ्गपट्टनम्|श्रीरङ्गपत्तनस्य]] [[कण्ठीरवनरसराजः]] १६५४तमे वर्षे बारामहल्, पेण्णगरम्, डेङ्कनिकोट्ट तथा धर्मपुरीप्रदेशान् जितवान् । ततः किञ्चनकालं बारामहलप्रदेशः [[मराठाः|मराठैः]] शासितः । पुनः १६८८-८९ वर्षे मैसूरुराजः [[चिक्कदेवरायः]] सम्पूर्णं सेलम् मण्डलं स्वायत्तीकृतवान् । १७०४तमे वर्षे तस्य निधनानन्तरं १७१४ तमे वर्षे कडपानवाबः अब्दुल नबि खानः बारामहलस्य अधिपतिः अभवत् ।
१७५० समये [[हैदर् आलि]] एतं प्रदेशं जितवान् । ततः १७६७ तमे वर्षे अयं प्रदेशः ब्रिटिशैः जितः । पुनः शीघ्रमेव हैदर् आलि ब्रिटिशान् पराजित्य एतान् प्रदेशान् प्राप्तवान् । तस्य पुत्रस्य [[टिप्पु सुल्तानः|टिप्पू सुल्तानस्य]] काले सम्भूतस्य शान्तिसन्धानस्य फलत्वेन बालघाट् तथा होसूरुप्रदेशम् अतिरिच्य प्रायेण पूर्णं सेलं मण्डलं ब्रिटिशानाम् अधीनम् अभवत् । प्रथमः ब्रिटिश् समाहर्ता कृष्णगिरिं स्वस्य केन्द्रस्थानम् अकरोत् । १७९९ तमे वर्षे सम्भूतस्य अन्तिममैसूरुसमरस्य अनन्तरं होसूरुप्रदेशस्य शिष्टाः भागाः अपि ब्रिटिशानाम् अधीनानिअधीनाः अभवन् ।
अद्यतनधर्मपुरीप्रदेशः तदा सेलंमण्डलस्य एव भागः आसीत् । १९४७ पर्यन्तम् अपि धर्मपुरी सेलंमण्डलस्यसेलं तालुकामण्डलस्य उपमण्डलम् आसीत् । १९६५ तमे वर्षे अक्टोबर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं निर्मितम् । अस्य केन्द्रस्थानम् अभवत् धर्मपुरीपत्तनम् ।
 
२००४ तमवर्षस्य सेप्टम्बर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं धर्मपुरी तथा कृष्णगिरिः इति द्वेधा विभक्तम् ।
 
==भौगोलिकम्==
धर्मपुरीमण्डलस्य विस्तारः ४४९७.७७ चतुरश्रकिलोमीटर् । अस्य उत्तरदिशि कृष्णगिरिमण्डलम्कृष्णगिरिमण्डलमं, पूर्वत्र तिरुवण्णामलै-विलुप्पुरमण्डले, दक्षिणे सेलंमण्डलम्सेलं मण्डलं, पश्चिमभागे [[कर्णाटकम्|कर्णाटकराज्यस्य]] चामराजनगरमण्डलं च[[चामराजनगरमण्डलम्]] अस्ति । पूर्णं मण्डलं पर्वतैः अरण्यैः च आवृतम् अस्ति ।
अत्रत्यः वायुगुणः प्रायेण उष्णः भवति । मार्च्‌मासतः मेमासपर्यन्तम् औष्ण्यम् अत्यधिकं भवति । एप्रिल्‌मासे अधिकतमः ३८०३८.० सी उष्णांशः भवति । डिसेम्बर्मासतः फ़ेब्रवरीमासपर्यन्तं उष्णता मन्दीभवति । जनवरीमासे न्यूनतमः ११० सी उष्णांशः भवति ।
 
==जनसंख्या==
२०११ जनगणनानुगुणं धर्मपुरीमण्डले १,५०२,९०० जनाः वसन्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या धर्मपुर्याः ३३४तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर्प्रतिचतुरस्रकिलोमीटर् ३३२ निवासिनः (प्रतिचतुरश्रमैल् ८६० जनाः) । २००१-२०११ दशके जनसंख्यावृद्धिः १६.०४% आसीत् । धर्मपुर्यां पुं-स्त्री अनुपातः १०००:९४६ अस्ति, साक्षरताप्रमाणं च ६४.७१% ।
 
==उपमण्डलानि==
धर्मपुरीमण्डले पञ्च तालुकाःउपमण्दलानि सन्ति ।
 
* धर्मपुरी
पङ्क्तिः १४८:
==कृषिः वाणिज्यं च==
राज्यस्य प्रमुखेषु फलशाकोत्पादकेषु प्रदेशेषु धर्मपुरीमण्डलम् अपि अन्यतमम् । अत्र अनावृष्टिः काले काले भवति । अतः वृष्टिं विना रोढुं समर्थानां फलानां कृषिः अधिकतया दृश्यते । अत्रत्यं प्रमुखम् उत्पादनम् आम्रफलानाम् । मण्डलस्य प्रायः १/३ प्रदेशे आम्रकृषिः दृश्यते । राज्यस्य ५०% आम्रफलानि अत्रैव रुह्यन्ते । पालक्कोडुप्रदेशे टोमेटोकृषिः भवति । पेण्णगरप्रदेशे मरीचिकाकृषिः दृश्यते ।
पेण्णगरे हरूरु-पालक्कोडुप्रदेशयोः च उत्तमविधः कृष्णवर्णीयः ग्रानैट् खनिजः अपि लभ्यते । क्वार्ट्ज़् खनिजः पेण्णगरतालुकायाःपेण्णगर-उपमण्डलस्य केण्डिगनपळ्ळिग्रामे, हरूरुतालुकायाः वेलम्पट्टिग्रामे, पाप्पिरेड्डिपट्टितालुकायाः पेद्दम्पट्टिग्रामे च लभ्यते । हरूरुप्रदेशे अमूल्यः मालिब्डिनम् खनिजः अपि लभ्यते । अयं खनिजः उत्तमः संवाहकः ।
 
==वीक्षणीयस्थलानि==
===[[होगेनक्कल्]] जलपातः===
इदं धर्मपुरीमण्डलस्य प्रमुखं प्रवासिस्थानम् । धर्मपुर्याः ४६ किलोमीटर् दूरे कर्णाटकस्य सीमायाम् अयं जलपातः अस्ति । होगेनक्कल् प्रदेशे कावेरीनदी[[कावेरी]]नदी महता प्रवाहेण तमिऴ्‌नाडुराज्यं प्रविशति । तया नद्या अत्र नैसर्गिकः जलपातः निर्मितः । कन्नडभाषायांकन्नडभाषया होगेनक्कल् इत्यस्य पदस्य ’धूमावृतशिला’ इत्यर्थः । यदा जलम् अधः शिलायां सरभसं पतति, तदा उत्थिताः जलकणाः धूमसदृशाः भवन्ति । तेन शिलाः धूमावृताः इव दृश्यन्ते । होगेनक्कल् प्रदेशे जलं विस्तृततया प्रवहति । अत्र तरीभिः यानं सम्भवति । ‘परिसल्’ इति प्रसिद्धया तर्या यानं रोमाञ्जकम् अनुभवं जनयति । होगेनक्कल्प्रदेशं परितः बहवः गिरयः सन्ति, यैः प्रदेशस्य सौन्दर्यं वर्धते । जलपाते स्नानं कर्तुं शक्यम् । स्थलीयजनैः अभ्यञ्जनम् अपि क्रियते आसक्तानां प्रवासिनाम् । कावेरीनदी आवर्षं प्रवहति इत्यतः वर्षे यदा कदापि अयं जलपातः द्रष्टुं शक्यः । धर्मपुरीतः तथा कृष्णगिरेः होगेनक्कलं प्राप्तुं वाहनव्यवस्था अस्ति ।
 
===तीर्थमलै देवालयः===
पङ्क्तिः १६४:
 
===सर् थामस् मन्रो स्तम्भः===
सर् थामस् मन्रो एप्रिल् १७९२तः मार्च् १७९९ पर्यन्तं बारामहले आयाधिकारिणः सहायकः आसीत् । धर्मपुर्याधर्मपुर्याः सहकृते तस्य सहयोगस्य स्मरणार्थं मद्रास् सर्वकारेण अयं स्तम्भः निर्मितः । समीपे एव तस्य गृहम्, उद्यानं च अस्ति ।
 
==बाह्यसम्पर्कतंतुः==
"https://sa.wikipedia.org/wiki/धर्मपुरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्