"धर्मपुरीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२४:
चतुर्दशे शतके [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] उदयः अभवत् । १३६५-६६ समये प्रथमः [[बुक्कराजः]] [[मधुरै]]प्रदेशस्य देहलीसुल्तानान् पराजितवान् । ततः सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनः अभवत् । [[ताळीकोटे]]टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।
 
[[श्रीरङ्गपट्टनम्श्रीरङ्गपट्टणम्|श्रीरङ्गपत्तनस्यश्रीरङ्गपत्तणस्य]] [[कण्ठीरवनरसराजः]] १६५४तमे वर्षे बारामहल्, पेण्णगरम्, डेङ्कनिकोट्ट तथा धर्मपुरीप्रदेशान् जितवान् । ततः किञ्चनकालं बारामहलप्रदेशः [[मराठाः|मराठैः]] शासितः । पुनः १६८८-८९ वर्षे मैसूरुराजः [[चिक्कदेवरायः]] सम्पूर्णं सेलम् मण्डलं स्वायत्तीकृतवान् । १७०४तमे वर्षे तस्य निधनानन्तरं १७१४ तमे वर्षे कडपानवाबः अब्दुल नबि खानः बारामहलस्य अधिपतिः अभवत् ।
१७५० समये [[हैदर् आलि]] एतं प्रदेशं जितवान् । ततः १७६७ तमे वर्षे अयं प्रदेशः ब्रिटिशैः जितः । पुनः शीघ्रमेव हैदर् आलि ब्रिटिशान् पराजित्य एतान् प्रदेशान् प्राप्तवान् । तस्य पुत्रस्य [[टिप्पु सुल्तानः|टिप्पू सुल्तानस्य]] काले सम्भूतस्य शान्तिसन्धानस्य फलत्वेन बालघाट् तथा होसूरुप्रदेशम् अतिरिच्य प्रायेण पूर्णं सेलं मण्डलं ब्रिटिशानाम् अधीनम् अभवत् । प्रथमः ब्रिटिश् समाहर्ता कृष्णगिरिं स्वस्य केन्द्रस्थानम् अकरोत् । १७९९ तमे वर्षे सम्भूतस्य अन्तिममैसूरुसमरस्य अनन्तरं होसूरुप्रदेशस्य शिष्टाः भागाः अपि ब्रिटिशानाम् अधीनाः अभवन् ।
अद्यतनधर्मपुरीप्रदेशः तदा सेलंमण्डलस्य एव भागः आसीत् । १९४७ पर्यन्तम् अपि धर्मपुरी सेलं मण्डलस्य उपमण्डलम् आसीत् । १९६५ तमे वर्षे अक्टोबर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं निर्मितम् । अस्य केन्द्रस्थानम् अभवत् धर्मपुरीपत्तनम् ।
"https://sa.wikipedia.org/wiki/धर्मपुरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्