"मोक्षगुण्डं विश्वेश्वरय्य" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
==जलानयनम्==
विश्वेश्वरय्यः अध्ययनस्य पश्चात् [[मुम्बै]]नगरे लोकोपयोगिविभागे सर्वकारीयसेवाम् समारभत । क्रि.श. १८८४तमे वर्षे भारतीयजलनयनप्राधिकारतः आमन्त्रणम् आगतम् । तत्र सेवानियोजनस्य पश्चात् दक्षिणप्रस्थभूमौ एव अत्युतमां जलानयनव्यवस्थां परिचायितवान् । कवेरीनद्यां जलबन्धनिर्माणात् पूर्वं एषः तिरुचिरापळळिमह्द्ये चोळराजेन निर्मितं १८मशतके अर्थर् काटन् इत्यनेन पुनर्नवीकृतं बृहत् जलबन्धः दृष्ट्वा प्रभावितः अभवत् । मैसूरुमहाराजे वृत्तान्तं न्यवेदयत् ।
[[चित्रम्:Brindavan Gardens2 - KRS DAM.jpg|thumb|right|250px|कृष्णराजसागरजलबन्धः विश्वेश्वरय्यस्य कौशलम्]]
जलबन्धनिर्माणे उपयोज्यमानानां स्वचालितमहापूरद्वाराणां विन्यासं संशोध्य तस्य स्वाम्यं प्राप्रवान् । क्रि.श. १९०३तमे वर्षे प्रथमवारं महापूरनिर्गमनद्वाराणि पुण्यपत्तनस्य (पुणे) खडक्वास्ला जलबन्धे प्रयोजितानि । अत्र प्रथमयशस्विप्रयोगस्य पश्चात् ग्वालियर् समीपे टिग्रा जलबन्धे कर्णाटकस्य कृष्णराजसागरजलबन्धे च एतत् तन्त्रज्ञानं योजितम् । एतेषां स्वचालितद्वारणाम् उद्देशः तु महापूरे आगते जलबन्धानां सुरक्षापूर्वकं अधिकजलसङ्ग्रहः । तस्मिन् कालखण्डे कृष्णराजसागरः एव [[भारतम्|भारतस्य]] अतिबृहत् जलबन्धः कृष्णराजसागरजलबन्धः आसीत् । हैदराबाद् नगरं प्रवाहात् रक्षणस्य योजनां कृत्वा विश्वेश्वरय्यः समग्रदेशे परिचितः अभवत् ।
 
"https://sa.wikipedia.org/wiki/मोक्षगुण्डं_विश्वेश्वरय्य" इत्यस्माद् प्रतिप्राप्तम्