"मैसूरु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding uk:Майсур
(लघु) r2.7.3) (Robot: Adding ur:میسور; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Mysore.jpg|300px|thumb|'''मैसूरुप्रासदः''']]मैसूरुनगरं [[कर्णाटक]]प्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । [[कर्णाटक]]स्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।
मैसूरनगरं राजगृहाणां नगरम् इति प्रसिद्धम् । अत्र राजमार्गाः इव मार्गाः सन्ति । वास्तुशिल्पानि अतीव सुन्दराणि । तीर्थक्षेत्राणाम् अपेक्षया मैसूरुनगरे प्रेक्षणीयानि अनेकानि स्थानानि सन्ति । राजगृहस्य आवरणे एव अनेके देवालयाः सन्ति । तेषु भुवनेश्वरी- तृणेश्वरगायत्री(१९४९)-श्वेतवराह-प्रसन्नकृष्णलक्ष्मीरमणदेवालयाः प्राचिनतमाः सन्ति ।
राजगृहे स्थितः आत्मविलासविनायकः अत्यन्तम् अद्भुतः क्वचिदेव दृश्यते च । आवारस्य बहिर्भागे दक्षिणपार्श्वे स्थितः बृहदाञ्जनेयमन्दिरं, सुब्बरायदासमन्दिरम् अतीव सुन्दरम् । ओण्टिकोप्पलु प्रदेशे स्थितं लक्ष्मीवेङ्कटरमणमन्दिरं (१९३७) ,चामुण्डीपर्वते स्थितः (महबलाचलः) भोगानरसिंहदेवालयः च दर्शनीयाः सन्ति ।
[[चामुण्डीपर्वतः]] (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च ।
चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति ।[[Fileचित्रम्:ChamundeshwariTemple.jpg|thumb|'''चमुण्डेश्वरिमन्दिरम्''']]
पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।
मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम्।
मैसूरुप्रदेशे पूर्वं गङ्ग-चोल-विजयनगर-होय्सल-ओडेयरवंशीयानां प्रशासनम् आसीत् । [[नाल्वडि कृष्णराज ओडेयरः]] अत्यन्तम् प्रसिद्धः राजा आसीत् । मैसूरुनगरे नवरात्रिमहोत्सवः वैभवेण आचरितः भवति । विजयदशम्याः दिने आचर्यमाणः दसरामहोत्सवः [[मैसूरुदसरा]] इत्येव प्रसिद्धः| देव्याः चामुण्डेश्वरयाः सुवर्णमण्डपे उत्सवः भवति। स तु विश्वविख्यातः पर्वविशेषः। लक्षाधिकजनाः देशविदेशेभ्यः अस्मिन्नवसरे मैसूरनगरम् आगच्छन्ति गजस्योपरि देव्याः चामुण्डेश्वर्याः विशेषयात्रा भविष्यति । नगरे विविधाः मनोरञ्जनकार्यक्रमाः प्रचलन्ति । राज्यसर्वकारेण उत्सवः आचर्यते । [[कर्णाटक]]राज्यस्य [[मुख्यमन्त्री]] उत्सवे भागं स्वीकरोति । मैसूरुसमीपे [[रङ्गनतिट्टुपक्षिधाम]] अस्ति [[Fileचित्रम्:Mysore Painting.jpg|left|thumb|'''मैसूरुचित्रशैली''']]
मैसूरुनगरे दर्शनीयानि अनेकस्थानानि सन्ति । तेषु जगन्मोहनप्यालेस्, चित्रशाला, मृगालयः, रेल्वेम्युसियम् ललितमहल् सेंटफिलोमीनाचर्च, मानसगङ्गोत्री, वस्तुसंग्रहालयः श्रीगन्धतैलकार्यागारः, दुकूलवस्त्रनिर्माणकार्यागारः, मैसूरुराजगृहं प्रमुखानि। मृगालये दिसद्द्स्रजातीयाः पशुपक्षिणः सन्ति ।
मैसूरुतः १२ कि.मी .दूरे कावेरीनद्याः कृते [[कन्नम्बाडीजलबन्धः]] निर्मितः अस्ति । कन्नम्बाडीजलबन्धेन कृष्णराजसागरजलाशयः निर्मितः अस्ति । तत्र वुन्दावनोद्यानम् विश्वप्रसिद्धम् अस्ति । कृतकजलपातः , जलविहारः, सङ्गीतमयानि उत्सांसिम् सुन्दरदीपालङ्कारः यात्रिकानाम् आनन्दं जनयन्ति । उद्याने विविधानि सुन्दराणि सस्यानि सन्ति ।
{{stub}}
 
[[वर्गः:कर्णाटकस्य मण्डलानि|मैसूरु]]
[[वर्गः:नगराणि|मैसूरु]]
[[वर्गः:भारतस्य नगराणि|मैसूरु]]
 
 
{{stub}}
 
[[ar:مايسور]]
Line ५७ ⟶ ५५:
[[te:మైసూరు]]
[[uk:Майсур]]
[[ur:میسور]]
[[vi:Mysore]]
[[war:Mysore]]
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्