"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३७:
== तस्य अनुपमं योगदानम् ==
देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन् । "दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्" इत्येतत् तेन लिखितं प्रथमं पुस्तकम् । एषः तेलगुभाषया राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म । मैसूरुनगरे एतस्य नाम्ना कश्चन मार्ग: वर्तते । भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे "जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि" इति पुस्तकम् अलिखत् । स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत। एतस्य तत्त्वज्ञानस्य प्रभया आकृष्ट: आक्सफर्ड् विश्वविद्यालय: 'धर्म: तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत् । तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत्। भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत्। १९६७ तमे वर्षे राष्ट्र्पतिस्थानस्य अधिकारावधे: परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः । १९७५ तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत ।
 
{{भारतस्य राष्ट्रपतयः}}
 
{{भारतरत्नप्रशस्तिभूषिताः}}
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्