"महाशिवरात्रिः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding es:Maha Shivaratri
(लघु) r2.7.3) (Robot: Modifying or:ମହା ଶିବରାତ୍ରି; अंगराग परिवर्तन
पङ्क्तिः ५:
:'''शैवो वा वैष्णवो वाऽपि यो वास्यादन्यपूजक: ।'''
:'''सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखा: ॥''' इति
[[Fileचित्रम्:Kotilingeshwara.JPG|150px|thumb|right|'''शिवलिङ्गम्''']]
 
एकादश्यां यथा उपवासस्य प्रामुख्यं तथैव शिवरात्र्यामपि उपवास: प्रामुख्यं भजते ।
पङ्क्तिः २०:
:'''सङ्कि्रमष्याम्यासन्दिग्धं वर्षपापविशुद्धये ॥''' (नागरखण्डे)
 
शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा । [[शिवः|शिवस्य]] ध्यानानन्द: आत्मगुणसम्पत्ति: अत्यन्तं प्रियौ स्त: । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायास:, क्षमागुण:, अकार्पण्यभाव:, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणा: । अहिंसा, सत्यम्, अक्रोध:, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रात: नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति । शतरुद्रीयं, श्रुतिसूक्ती:, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्त: पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति । ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते । तत्रापि विशेषतया षोडशोपचारेषु अभिषेक: शिवस्य अत्यन्तं प्रिय: इति उक्तम् अस्ति शास्त्रेषु । '''अलङ्कारप्रियः विष्णु: अभिषेकप्रिय: शिव:''' इति । गोश्रृङ्गेण अभिषेक: तु परमप्रिय: इति तस्य । [[अग्निः|अग्नौ]] शिवम् आवाह्य [[सर्षपः|सर्षप]]नैवेद्यं चरुनैवेद्यं च समर्पयन्ति । अग्निपूजान्ते पूर्णाहुतिं समर्प्य शिवस्य कथानां श्रवणं, कीर्तनादिकं कुर्वन्ति । यथाशक्ति दानम् आचरन्ति । सदाशिव: ध्यानप्रिय: । तद्दिने रात्रौ जागरणम् आचरन्त: सर्वेपि ध्यानम् आचरन्ति । रात्रौ प्रथमयामे [[दुग्धम्|क्षीरेण]], द्वीतीययामे [[दधि|दध्ना]], तृतीययामे [[घृतम्|घृतेन]], चतुर्थे च यामे [[मधु|मधुना]] शिवलिङ्गस्य विग्रहस्य वा अभिषेकं कुर्वन्ति । पञ्चामृत-गन्ध-[[कुङ्कुमम्|कुङ्कुम]]-[[कर्पूरः|कर्पूर]]-तीर्थ-सुवर्णतीर्थै: अभिषेकं कृत्वा भव-शर्व-ईशान-पशुपति-उग्र-रुद्र-भीम-महादेव इत्येतेभ्य: शिवस्य अष्टरूपेभ्य: तत्त्पनीभ्य: च तर्पणं समर्पयन्ति । अष्टोत्तरशतनामभि: सह [[बिल्वम्|बिल्व]]पत्रार्पणं कृत्वा उपचारान् समर्पयन्ति । शिवपूजार्थं विहितानि पत्राणि [[अर्कः|अर्क]]-करवीर-बिल्व-वकुल-धत्तूर-बृहतीपत्राणि । पत्रेषु बिल्वपत्रं, पुष्पेषु [[द्रोणपुष्पम्|द्रोणपुष्पं]] शिवस्य प्रियम् इति अस्ति ।
 
:'''चतुर्णां पुष्पजातीनां गन्ध्माघ्राति शङ्कर: ।'''
पङ्क्तिः ३२:
 
एषा शिवरात्रि: सर्वयज्ञेषु उत्तमोत्तमा । दान-यज्ञ-तप:-तीर्थ-व्रत-कर्मादीनि शिवरात्रिव्रतस्य कोटिषु एकभागोपि न भवन्ति । [[कृष्णजन्माष्टमी|कृष्णाष्टमी]] इव शिवरात्रि: अपि नित्यव्रतमपि काम्यव्रतमपि । माघफाल्गुनयोर्मध्ये चतुर्दश्याम् उपवासं कृत्वा जागरणम् आचरन्ति ये तेभ्य: रुद्र: प्रसन्न: सन् भुक्तिं मुक्तिं च ददाति इति वदति [[गरुडपुराणम्|गरुडपुरणम्]] । शिवस्य शरीरं ज्योतिर्मयम् । [[चन्द्रः|चन्द्र]][[सूर्यः|सूर्या]][[अग्निः|ग्नय]]: एव तस्य त्रीणि [[नेत्रम्|नेत्राणि]] । [[शिरः|शिरसि]] विद्यमान: चन्द्र: मनस:, संयमस्य च प्रतीक: । जटासु विद्यमाना [[गङ्गा]] अमृतत्वसूचिका । [[कण्ठः|कण्ठे]] विद्यमान: [[सर्पः|सर्प:]] जीविनां देवाश्रयस्य प्रतीक: । [[गजः|गज]]चर्म अहङ्कारनिग्रहं, [[व्याघ्रः|व्याघ्राम्बरं]] विषयदमनं च द्योतयत: । विभूति: परिशुद्धतां भालनेत्रं ज्ञानं च प्रतिपादयत: । अस्मिन् माघमासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ एव शिव: आनन्देन ताण्डवनृत्यम् अकरोत् इति । क्षीरसागरमथनावसरे उद्भूतं [[विषम्|विषं]] पीत्वा नीलकण्ठ: सञ्जात: अस्मिन् एव दिने इति । शिवस्य जन्म अपि एतद्दिने एव अभवत् इति वदन्ति पुराणानि ।
 
 
[[वर्गः:हिन्दु-उत्सवाः]]
Line ४८ ⟶ ४७:
[[nn:Mahasjivaratri]]
[[no:Shivanatten]]
[[or:ମହା ଶିବରାତ୍ରୀଶିବରାତ୍ରି]]
[[pl:Mahaśiwaratri]]
[[pt:Maha Shivaratri]]
"https://sa.wikipedia.org/wiki/महाशिवरात्रिः" इत्यस्माद् प्रतिप्राप्तम्