"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
==संन्यासाश्रमः==
श्रीसुधीन्द्रस्वामिनः वेदान्तसाम्राज्ये योग्य-उत्तराधिकारिणः अन्वेषणसमये तस्य स्वप्ने श्री मूलदेवः वेङकटनाथं शिष्यरूपेण स्वीकर्तुं सूचितवान् । एतं विषयं सुधीन्द्रतीर्थस्वामी वेङकटनाथं सूचितवान् । वेङकटनाथः कुटुम्बं स्मृत्वा नकारं सूचितवान् । किन्तु गृहे साक्षात् सरस्वती देवी संन्यासाश्रमं स्वीकर्तुम् अनुज्ञां दत्तवती । एतेन मनसः परिवर्तनं भूत्वा वेङकटनाथः सुधीन्द्रनाथस्वामिनं संन्यासदीक्षां दातुं विज्ञापितवान् । तदनुगुणं फाल्गुणशुद्धद्वितीयायां [[तञ्जावूरु]]नगरे रघुनाथभूपालस्य तथा श्रेष्ठानाम् अनेकेषां विदूषाम् , आचार्याणां च सम्मुखे सुधीन्द्रस्वामी संन्यासदीक्षां दत्त्वा वेङ्कटनाथस्य राघवेन्द्रस्वामी इति नामकरणं कृत्वा प्रणवमन्त्रोपदेशपूर्वकं वेदान्तसाम्राज्ये पट्टाभिषेकं निर्वर्तितवान्।
वेङकटनथस्यवेङकटनाथस्य पत्नी संन्याश्रमस्य वार्तां श्रुत्वा खेदेन कूपे पतनपूर्वकम् आत्महत्यां कृत्वा पिशाचजन्म प्राप्य राघवेन्द्रस्वामिनः समीपम् आगतवती । तस्याः दुरवस्थां दृष्ट्वा राघवेन्द्रस्वामी तीर्थं तस्याः उपरि संप्रोक्ष्य मोक्षं प्रापितवान् ।
[[kn:ಶ್ರೀ ರಾಘವೇಂದ್ರ ಸ್ವಾಮಿಗಳು]]
[[ta:ஸ்ரீ ராகவேந்திர சுவாமிகள்]]
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्