"करूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
करूरुमण्डलम् (तमिऴ्: கரூர் மாவட்டம், आङ्ग्लम्: Karur District) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी-अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य केन्द्रस्थानं करूरुपत्तनम् ।
'''करूर् मण्डलः''' तमिळनाडु राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[करूर्]] नगरः |
 
==इतिहासः==
करूरुपत्तनं तमिऴ्नाडुराज्यस्य प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः, टिपू सुल्तानः च शासितवन्तः ।
ब्रिटिशाः टिपू सुल्तानं १७८३तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलस्य, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।
 
==भौगोलिकम्==
करूरु तमिऴ्नाडुराज्ये मध्यभागे विद्यमानेषु मण्डलेषु अन्यतमम् । अस्य मण्डलस्य उत्तरसीमायां नामक्कल् मण्डलम्, दक्षिणे दिण्डुक्कल् मण्डलम्, पूर्वस्मिन् तिरुचिरापळ्ळिमण्डलम्, पश्चिमभागे ईरोडुमण्डलं च अस्ति । राज्यस्य राजधान्याः चेन्नैतः इदं प्रायः ३७१ किलोमीटर् दूरे अस्ति ।
मे-जून् मासयोः अत्यधिकः उष्णांशः (३४० सी) अनुभूयते । वर्षे कानिचन दिनानि ३८० सीतः अधिकः उष्णांशः अपि अनुभूयते । जनवरी मासे शैत्यकाले उष्णांशः प्रायेण २३० सी भवति । १७० सीतः न्यूनः उष्णांशः अतिविरलः एव । वार्षिकवृष्टिः ७७५ मिलिमीटर् भवति । प्रायेण सेप्टम्बर् अन्त्यतः नवेम्बर् मध्यपर्यन्तं वृष्टिकालः भवति ।
 
==जनसंख्या==
२०११ तमवर्षस्य जनगणनानुगुणं करूरुमण्डलस्य जनसंख्या १,०७६,५८८ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४२२तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७१ (९६० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिप्रमाणं १५.०६ आसीत् । करूरुमण्डले पुं-स्त्री अनुपातः १०००:१०१५ अस्ति । साक्षरताप्रमाणं ७५.८६% ।
 
==उपमण्डलानि==
करूरुमण्डले पञ्च उपमण्डलानि सन्ति ।
# करूरु
# अरवकुरिच्चिः
# कडवूरु
# कृष्णरायपुरम्
# कुळितलै
 
==कृषिः वाणिज्यं च==
करूरुमण्डले प्रमुखतः कृष्णमृत्तिका दृश्यते । अत्रत्यानि प्रमुखाणि सस्यानि तण्डुलः, कदली, इक्षुखण्डः, नागवल्ली, धानाः, कलायः, तैलबीजानि, शाकाः, मालिकापुष्पाणि, औषधीयसस्यानि च ।
करूरुमण्डलस्य गृहवस्त्रोत्पादनं ख्यातम् अस्ति । पर्यङ्कवस्त्राणि, पाकगृहवस्त्राणि, शौचालयवस्त्राणि, उत्पीठिकावस्त्राणि, भित्त्यलङ्कारवस्त्राणि इति पञ्चप्रभेदानां वस्त्राणि अत्र प्रमुखतया उत्पाद्यन्ते । साक्षात् तथैव परम्परागतविदेशविक्रयणेन करूरुमण्डलस्य वार्षिकः वैदेशिकविनिमयः ६००० कोटिभ्यः अधिकः । एतत्सम्बद्धेषु सीवनयन्त्रागारेषु, वर्णागारेषु, तन्तुवायेषु च करूरुपरिसरे ४५०००० जनाः उद्योगरताः सन्ति ।
 
करूरुमण्डलं प्रति केरलतः हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति ।
तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापिता । इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टिएन्‌पिएल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रण-लेखनकागदम् उत्पाद्यते ।
 
करूरुमण्डलं बस्‌यानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिकबस्‌यानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५तः अधिकाः शरीरनिर्मातारः सन्ति । प्रतिवर्षं ३५००तः अधिकानि बस्‌यानानि अत्र निर्मीयन्ते । कर्णाटकस्य तमिऴ्नाडुनः सर्वकारीयवस्‌यानानि अपि अत्रैव निर्मीयन्ते । चेट्टिनाडु सिमेण्ट्स् संस्थायाः, करूरु वैश्यब्याङ्क् तथा लक्ष्मीविलासब्याङ्क् इत्येतयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरु । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।
 
==वीक्षणीयस्थलानि==
* श्रीमरकतीश्वरदेवालयः (१२०० वर्षेभ्यः प्राक् निर्मितः), मूलपाळैयम्, मुनूरुग्रामः ।
* श्रीकल्याणपशुपतीश्वरदेवालयः (तिरु आनिलै), करूरु ।
* श्रीअभयप्रदरङ्गनाथदेवालयः, करूरु ।
* श्रीकरुवूरुमारियम्मदेवालयः, करूरु ।
* तन्तोण्ड्रिमलै श्रीकल्याणवेङ्कटरमणस्वामिदेवालयः ।
* वेण्णैमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः ।
* पुगऴिमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः (आरु नाटर् मलै), पुगळूरु (२००० वर्षप्राचनम्) ।
* बालमलै श्रीबालदण्डायुधपाणिदेवालयः ।
* वेञ्चमङ्गुदलूरु विगिर्तीश्वरदेवालयः ।
* नोय्यल् श्रीसेलान्दियम्मन् देवालयः ।
* अत्तूरु शोलियम्मन् देवालयः ।
* वङ्गाल श्रीवङ्गालम्मन् देवालयः ।
* नेरूरु श्रीसदाशिवब्रह्मेन्द्रदेवालयः ।
* मधुक्करै सेल्लन्दियम्मन् देवालयः ।
* मन्मङ्गलं श्रीकालियम्मन् देवालयः ।
* कृष्णरायपुरं तिरुक्कण्मल्लेश्वरदेवालयः ।
* कडवूरु वसन्तपेरुमाळ् देवालयः ।
* कुळित्तलै नीलमेघपेरुमाळ् देवालयः ।
* अय्यर्‌मलै रत्नगिरीश्वरदेवालयः ।
* शिवायं शिवपुरीश्वरदेवालयः ।
* लालपेट अय्यप्पदेवालयः (तमिऴ्नाडुराज्ये प्रथमः अय्यप्पदेवालयः) ।
* ललपेट श्रीजयआञ्जनेयदेवालयः (३०० वर्षप्राक्तनम्) ।
* तमलै मुरुगदेवालयः ।
* रङ्गमलै मल्लीश्वरदेवालयः ।
* पुलियूरु व्याघ्रपुरीश्वरदेवालयः (त्रयोदशशतकस्य) ।
* पुलियूरु राजकालियम्मन् देवालयः ।
*
===प्रवासस्थलानि===
 
* मायनूरु – कावेरीतीरनियन्त्रकः, नदीतटस्थम् उद्यानम् ।
* चेट्टिपाळैयम् – अमरावतीतीरनियन्त्रकः, उद्यानम् ।
* तिरुमुक्कूडल् – कावेरी-अमरावतीनद्योः सङ्गमः ।
* नोय्यल् – कावेरी-नोय्यल्नद्योः सङ्गमः ।
* नेरूरु – श्रीमठः, ध्यानमण्डपः, नदीतीरस्थम् उद्यानम् ।
* कडवूरु – पोन्नियार् जलबन्धः, उद्यानम् ।
 
 
{{तमिळनाडु मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/करूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्