"करूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
 
==इतिहासः==
करूरुपत्तनं [[तमिऴ्‌नाडु|तमिऴ्नाडुराज्यस्य]] प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः, टिपू सुल्तानः[[टिप्पूसुल्तानः]] च शासितवन्तः ।
ब्रिटिशाः टिपू सुल्तानंटिप्पूसुल्तानं १७८३तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलस्य, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।
 
==भौगोलिकम्==
पङ्क्तिः ६९:
करूरुमण्डलस्य गृहवस्त्रोत्पादनं ख्यातम् अस्ति । पर्यङ्कवस्त्राणि, पाकगृहवस्त्राणि, शौचालयवस्त्राणि, उत्पीठिकावस्त्राणि, भित्त्यलङ्कारवस्त्राणि इति पञ्चप्रभेदानां वस्त्राणि अत्र प्रमुखतया उत्पाद्यन्ते । साक्षात् तथैव परम्परागतविदेशविक्रयणेन करूरुमण्डलस्य वार्षिकः वैदेशिकविनिमयः ६००० कोटिभ्यः अधिकः । एतत्सम्बद्धेषु सीवनयन्त्रागारेषु, वर्णागारेषु, तन्तुवायेषु च करूरुपरिसरे ४५०००० जनाः उद्योगरताः सन्ति ।
 
करूरुमण्डलं प्रति [[केरळम्|केरलतः]] हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति ।
तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापिता । इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टिएन्‌पिएल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रण-लेखनकागदम् उत्पाद्यते ।
 
करूरुमण्डलं बस्‌यानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिकबस्‌यानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५तः अधिकाः शरीरनिर्मातारः सन्ति । प्रतिवर्षं ३५००तः अधिकानि बस्‌यानानि अत्र निर्मीयन्ते । कर्णाटकस्य तमिऴ्नाडुनः सर्वकारीयवस्‌यानानि अपि अत्रैव निर्मीयन्ते । [[चेट्टिनाडु सिमेण्ट्स्]] संस्थायाः, [[करूरु वैश्यब्याङ्क्वैश्य ब्याङ्क्]] तथा लक्ष्मीविलासब्याङ्क्[[लक्ष्मीविलास ब्याङ्क्]] इत्येतयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरु । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।
 
==वीक्षणीयस्थलानि==
"https://sa.wikipedia.org/wiki/करूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्