"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Map Gujarat state and districts.png|thumb|right|गुजरातस्य मानचित्रम्|275px]]
'''गुजराती'''(ગુજરાતી)भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । गुजरातप्रान्तस्य[[गुजरातराज्यम्|गुजरातराज्यस्य]] राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । [[महात्मा गान्धिः]], [[सरदार् वल्लभभायी पटेलः]], [[स्वामी दयानन्दसरस्वती]], [[मोरारजी देसायी]], [[जे.आर्.डि.टाटा]], [[धीरूभाई अंबानी]], [[महम्मद् आलि जिन्ना]] इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।
==इतिहासः==
वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते [[गुजरातराज्यम्|गुजरात]]-[[राजस्थानम्|राजस्थानराज्ययोः]] अस्याः लिपेः उपयॊगः दृश्यते । इयं लिपिः '''महाजनी''' इति कथ्यते । अस्याः वर्णमाला [[संस्कृतम्|संस्कृतजन्या]] विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते ।
[[Image:Tisdall148.PNG|thumb|right|१८९२-कालावधौ लिखितस्य पुस्तकस्य कश्चन भागः]]
 
गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-इरानी-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।
 
Line १२ ⟶ १३:
:सर्वे स्वराः घोषाः अर्धघोषाः च भवितुम् अर्हन्ति
:ह्रस्वस्वराः विद्यन्ते चेदपि स्वरमात्रायाः अधिकं महत्त्वं न विद्यते
[[Image:Gandhi's hut-karadi.jpg|thumb|right|250px|गुजरातीमातृका-गान्धेः कुटीरं प्रति गमनाय सङ्केतः]]
 
==व्याकरणम्==
Line १९ ⟶ २१:
 
क्रियापदरूपेषु पुरुष-वचनव्यवस्था विद्यते । परप्रत्ययानां योजनेन काल-अवस्था-विशेषाः निर्दिश्यन्ते । 'हो' इत्येतेन सहायकक्रियापदयुक्तैः बहुपदरचनानां द्वारा पूर्णकालाः सूचयिष्यन्ते । तात्कालिकवर्तमानकालिक-भूतकालिक-पूर्वकालिकरूपाणि कृदन्तानि भवन्ति । नामपदेभ्यः इव एतेभ्यः अपि विभक्तिप्रत्ययाः योजयितुं शक्याः । एकवचने द्वयं बहुवचने द्वयम् इव रूपचतुष्टयं स्पष्टतया प्राप्तुं शक्नुमः ।
 
==बाह्यशृङ्खला==
* [http://www.gujaratilexicon.com Gujarati Online Dictionary & Language Resources]
* [http://wikitravel.org/en/Gujarati_phrasebook Gujarati phrasebook at Wikitravel]
* [http://lmp.ucla.edu/Profile.aspx?menu=004&LangID=85 UCLA Language Materials Project: Gujarati]
* [http://gu.wiktionary.org Gujarati Wiktionary]
* [http://groups.google.co.in/group/technical-hindi/web/Gujarati%20to%20Hindi%20Translator_01.htm?hl=en Gujarati to Hindi Translator] (Online)
* [http://dhavalnavneet.wordpress.com/2010/03/27/gujrati-origin/ Origin of Gujarati Language(in Gujarati])
* [http://www.whataflix.com Gujarati Video]
* [http://www.ciil-ebooks.net/html/bbjgujarati/contents.html Bharatiya Bhasha Jyoti: Gujarati] —a textbook for learning Gujarati through Hindi from the Central Institute of Indian Languages.
 
 
[[वर्गः:भाषा|गुजराती]]
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्