"चन्द्रः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying tpi:Mun (i stap long heven)
No edit summary
पङ्क्तिः ६०:
चन्द्रस्य उपरि विद्यमाना गाढा तीक्ष्णा तथा वैशिष्ट्यरहिता या भूमिः अस्ति सा ‘मेर्’ इति नाम्ना निर्दिश्यते । ‘मेर’ इत्यस्य ल्याटिन्भाषया समुद्रः इत्यर्थः । एते वलयाः जलेन आवृत्ताः इति विश्वस्य ‘मेर्’ इति नाम प्रदत्तम् । वास्तवरूपेण एते विस्तृताः कृष्णशिलायाः लावाप्रवाहाः । एते सर्वे चन्द्रस्य पुरोमुखे एव दृश्यन्ते । पृष्ठभागे (तिरोमुखे)अधिकतया न दृश्यन्ते । पृष्ठभागस्य २% विस्तीर्णमात्रम् अनेन आवृतम् । पुरोभागस्य ३२% विस्तीर्णप्रदेशः ‘मेर्’ प्रदेशेन आवृत्तः । पुरोमुखे तत्र तत्र ज्वालमुख्यः सन्ति । एतस्य भेदस्य अत्यन्तं सम्भवनीयं कारणं नाम- पुरोमुखे शाखोत्पन्नसमर्थानि वैशिष्ट्यानि सान्द्राणि सन्ति । एतादृशानि वैशिष्ट्यानि लूनार् प्रास्पेक्टर्न् गामाकिरणानां वर्णमापकपटलैः प्राप्त्ताभिः भूरासायनिकनक्षाभिः ज्ञायन्ते । पुरोभागे बहुत्र ज्वालामुख्यः सन्ति ।
==उन्नतप्रदेशाः==
एते समभागात् उन्नतस्तरे सन्ति इत्यतः एतेषां ‘टेरे’ इति नाम प्रदत्तम् । पुरोमुखे अनेके उन्नतपर्वतश्रेणयः बाह्य परिधौ दरीदृश्यन्ते । भूफलकस्य चलनात् अत्र यथा पर्वताः निर्मिताः तथा चन्द्रस्य एते पर्वताः निर्मिताः न सन्ति ।
==सङ्घट्टितगर्ताः==
चन्द्रस्य उपरि सर्वत्र एते सङ्घट्टनेन जाताः गर्ताः दृशन्ते । एते धूमकेतूनां सङ्घट्टनात् शतकोटिवर्षपूर्वम् सञ्जाताः ।। १ कि.मीटरात् अपि अधिकव्यासपरिमिताः ५ लक्षाधिकाः गर्ताः चन्द्रस्योपरि द्रष्टुं शक्याः वायुमण्डलस्य अनुपस्थितेः कारणात् एते नूतनाः इव दृश्यन्ते । चन्द्रस्य बाह्यमुखे स्थितानिस्थिताः मुख्यगर्ताः एवं सन्ति- इम्ब्रियं, सेरेनिटाटिस् , क्रिसियं, नेक्टारिस्गा इति ।
==जलस्य अस्तित्वम्==
धूमकेतूनाम् उल्कापिण्डानां सङ्घट्टनात् किञ्चित् जलस्य खण्डाः चन्द्रस्योपरि सञ्चिताः अभवन् । एते सूर्यकिरणैः आम्लजनक-जलजनकरुपेण विभक्ताः भूत्वा बाह्माकाशं गच्छन्ति । अपोलोगगनयात्रिभिः समभाजकस्य समीपे शिलाखण्डेषु सङ्गृहीतः अत्यल्पप्रमाणकः जलस्य अंशः संशोधितः अस्ति । एतेन ज्ञायते यत् अत्र जलस्य अंशः नास्ति इति । किन्तु ध्रुवस्य समीपे जलकणाः स्युः इति ऊहयते । दक्षिणध्रुवप्रदेशे २४,००० च. कि.मी प्रदेशः शाश्वतछायायां स्यात् इति गणकीकृतछायाचिव्राणि सूचयन्ति । उपयोक्तुं योग्यप्रमाणेन जलस्य अस्तित्वं चन्द्रे जनवासार्थं मुख्यः विषयः भवति ।
==गुरुत्वक्षेत्रम्==
चन्द्रस्य गुरुत्वक्षेत्रस्य प्रमुखं वैषिष्ट्यं नाम यत्र महता प्रमाणेन सङ्घट्टनं जातम् अस्ति तत्र गमनार्हरूपेण गुरुत्वे असमञ्जसता वर्तते । एताम् असमञ्जसतां ‘म्यास्गान्’ इति कथयन्ति । एतादृशी असमञ्जसता गगननौकायाः कक्षायाः निर्धारणे अधिकं प्रभावं जनयन्ति। किन्तु मानवसहित/रहितचन्द्रयानस्य सज्जतायां निखरगुरुत्वस्य ज्ञानम् अत्यावश्यकम् अस्ति । यतः अपोलोनौकाचालनस्य पूर्वपरीक्षायां, गगननौकावतरणस्थानानि निरीक्षायाः अपेक्षया भिन्नानि जातानि । अस्य समस्यायाः कारणं किम् इति अन्विष्य परिभ्रामकेण सूचना प्रेषिता । कारणं गुरुत्वस्य असमञ्जसता इति ज्ञातमभूत् ।
==कान्त क्षेत्रम्==
चन्द्रस्य बाह्यकान्तक्षेत्रं बहुदुर्बलम् । चन्द्रः प्रस्तुतं द्विध्रुवकान्तक्षेत्रं न प्राप्तवान् अस्ति । यतः तस्य अन्तः उत्पादकाः लावारसादयः न सन्ति । चन्द्रस्य प्रस्तुतकान्तक्षेत्रं सम्पूर्णतया बाह्य-आवरणेन उद्भूतम् । प्लस्मामेघस्य कारणात् अस्थिरकान्तक्षेत्राणि उद्भवन्ति इति सूचितम् अस्ति ।
==वायुमण्डलम्==
चन्द्रः सामान्यतया विरलं निर्वातरुपं वायुमण्डलम् विदधाति । चन्द्रस्य आन्तरिकभागेषु उत्पादितेभ्यः विकिरण क्षयेभ्यः ‘टेडान्’ इत्यादयः अनिलाः उद्भवन्ति । सौरमारुतात्, सूर्यकिरणात् च अनिलाः अल्पप्रमाणेन उत्पन्नाः भवन्ति । एते अनिलाः बाह्याकाशे मारुतस्य कान्तक्षेत्रात्, सौरमारुतस्य आकुञ्चनात् वा विनष्टाः भवेयुः । वर्णपटलमापकद्वारा चन्द्रस्य उपरि सोडियं (Na), पोट्याषियं (K) मूलवस्तूनि संशोधितानि सन्ति ।
==उद्भवः तथा भूवैज्ञानिकविकसनम्==
समकालिक-उद्भववादानुसारं सूर्यं परितः यथा ग्रहाः उद्भूताः, तथा भूमिं परितः चन्द्रः उद्भूतः । किन्तु चन्द्रस्य उपरि अयसः न्यूनताकारणतः एषः वादः सर्वैः नाङ्गीक्रियते । किन्तु ‘बृहत् सङ्घट्टनसिद्धान्तं सर्वे सामान्यतया अङ्गीकुर्वन्ति । मङ्गलग्रहसदृशः आकाशकायः भूमिं घट्टयति, (‘थीय’ अथवा ‘आर्फयस्’ इति तस्य नाम) अनेन घट्टनसमये उद्भूतपदार्थानां सम्मेलनेन चन्द्रः निर्मितः इति अस्य सिद्धान्तस्य आशयः । तथापि चन्द्रस्य निर्माणे आवश्यकाः पदार्थाः कस्मात् अनुपातात् भूम्याः, एवं बाह्य-आकाशकायात् (‘आर्फियस्’ कायात्) आगताः इति सन्देहः विद्यते एव । चन्द्रस्य निर्माणं ४५२.७+- १ कोटि वर्षात् पूर्वं जातम् । सौरमण्डलस्य उद्भवात् ३-५ कोटि वर्षेभ्यः अनन्तरं इति परिगणयन्ति ।
 
 
==अवलोकनम्==
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्