"चन्द्रः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ckb:مانگ
No edit summary
पङ्क्तिः ७३:
==उद्भवः तथा भूवैज्ञानिकविकसनम्==
समकालिक-उद्भववादानुसारं सूर्यं परितः यथा ग्रहाः उद्भूताः, तथा भूमिं परितः चन्द्रः उद्भूतः । किन्तु चन्द्रस्य उपरि अयसः न्यूनताकारणतः एषः वादः सर्वैः नाङ्गीक्रियते । किन्तु ‘बृहत् सङ्घट्टनसिद्धान्तं सर्वे सामान्यतया अङ्गीकुर्वन्ति । मङ्गलग्रहसदृशः आकाशकायः भूमिं घट्टयति, (‘थीय’ अथवा ‘आर्फयस्’ इति तस्य नाम) अनेन घट्टनसमये उद्भूतपदार्थानां सम्मेलनेन चन्द्रः निर्मितः इति अस्य सिद्धान्तस्य आशयः । तथापि चन्द्रस्य निर्माणे आवश्यकाः पदार्थाः कस्मात् अनुपातात् भूम्याः, एवं बाह्य-आकाशकायात् (‘आर्फियस्’ कायात्) आगताः इति सन्देहः विद्यते एव । चन्द्रस्य निर्माणं ४५२.७+- १ कोटि वर्षात् पूर्वं जातम् । सौरमण्डलस्य उद्भवात् ३-५ कोटि वर्षेभ्यः अनन्तरं इति परिगणयन्ति ।
==चन्द्रस्य शिलापाकसागरः==
महासङ्घट्टनात्, तदनन्तरतनसञ्चयनात् अपारशक्तिः आविर्भूता अभवत्। । एतादृशबहु-उष्णशक्तेः कारणात् चन्द्रस्य बहुभागः द्रवरुपेण आसीत् इति चिन्तयन्ति । द्रवस्यास्य बाह्यभागः ‘चन्द्रस्य शिलापाकसागरः’ इति कथ्यते । अस्य गभीरता ५०० कि.मी परिमिता सती चन्द्रस्य केन्द्रपर्यन्तम् आसीत् इति ऊहा अस्ति ।
==भूवैज्ञानिकविकसनम्==
चन्द्रस्य बाह्य परिधेः ३ कि.मीटरात्मकः व्यासवलयः २० लक्षवर्षेभ्यः पूर्वं अनिलबाह्यप्रसरणात् व्यत्यस्तः इति वदन्ति ।
==कक्षया एवं भूम्याः साकम् सम्वन्धः==
२७.३ दिनेषु एकवारं चन्द्रः भूमिं परितः परिभ्रमति (चन्द्र्स्य नाक्षत्रिक अवधिः)। किन्तु भूमिरपि सूर्यस्य परिभ्रमणं स्वकक्षायां करोति अतः चन्द्रस्य ताः एव कलाः अस्माभिः २७.५ दिनेषु दृश्यन्ते (चन्द्रस्य यति-अवधिः) चन्द्रः भूमेः क्रान्तिवृत्तस्य समतलस्य समीपे परिभ्रमति समुद्रस्य उत्कर्षापकर्षं विहायापि भूमिचन्द्रयोः मध्ये परस्परं अनेके परिणामाः भवन्ति । अनेन उत्कर्षापकर्षाभ्यां भूमि – चन्द्रयोः सर्वसामान्यदूरं शतके ४ मीटर् अथवा प्रतिवर्षम् ४ से.मी अधिकं भवति ।
==ग्रहणम् ==
सूर्यः भूमिः एवं चन्द्रः यदा एकस्याम् एव सरलरेखायां वर्तन्ते तदा ग्रहणं सम्भवति । अमावास्यायां चन्द्रः सूर्यस्य एवं भूमेः मध्ये आगच्छति तदा सूर्यग्रहणं सम्भवति । पूर्णिमायाः दिने यदा भूमिः सूर्यचन्द्रयोः मध्ये आगच्छति तदा चन्द्रग्रहणं सम्भवति । सर्वासु पूर्णिमासु अमावास्यासु ग्रहणानि न सम्भवन्ति । पूर्णग्रहणम् एवं कङ्कग्रहणमिति द्विविधे ग्रहणे पश्यामः । पूर्णग्रहणे चन्द्रः सूर्यं सम्पूर्णतया अच्छादयति । इतः परं ६० कोटिवर्षानन्तरं (सूर्यस्य कोनव्यासः न व्यक्रियते येत् ) चन्द्रः सूर्यम् सम्पूर्णततया आच्छादयितुं न शक्नोति तदा केवलं कङ्कणग्रहणानि एव सम्भवन्ति । कोट्यन्तरवर्षेभ्यः पूर्वं केवलं पूर्णग्रहणानि एव आसन् ।
==अन्वेषणम्==
दूरदर्शकस्य आविष्कारास्यानन्तरं चन्द्रस्य वीक्षणे प्रगतिः अभूत् ।[[ गेलिलियो]] महाशयः स्वस्य ‘गेलिलै’ इति नूतनम् उपकरणं सम्यक् उपयुज्य,चन्द्रस्य बाह्य-आवरणे स्थितान् पर्वतान् तथा कन्दरान् अवलोकयामास । शीतलसमरस्य प्रचोदनात् रशिया-अमेरिकासंस्थानयोः मध्ये बाह्याकाशविषये आसक्तिः अधिका अभवत् । तथा चन्द्रस्य विषयेऽपि आसक्तिः अधिका अभवत् । तयोः रशियादेशस्य (उपग्रहः) चन्द्रयोजनानुसारं लूना-१६ , २०,२४ एवम् अपोलो-११,१२,१४,१५,१६ १७ एताः गगननौकाः चन्द्रस्योपरि विद्यमानं शिलाखण्डं मृत्तिकां च अत्र आनीतवन्तः ।
[[अमेरिका]]देशस्य अपोलो-११ यात्रायाः नायकः नील-आर्मस्ट्रांग् ’ महोदयः १९६९ तमवर्षस्य जुलैमासस्य ११ दिनाङ्के १२.५६ U.T.C समये चन्द्रस्योपरि आदौ स्वपादं न्यस्तवान् । चन्द्रस्योपरि (२००७ तमे वर्षे) पादं न्यस्तवत्सु अन्तिममानवः युजीन सेरनात् । अपोलोयात्रासु चन्द्रस्योपरि अनेकानि वैज्ञानिक- उपकरणानि उपस्यापितानि । तेषु उष्णप्रवाहशोधकाः चन्द्रकम्पनमापकाः, कान्तत्वमापकाः प्रमुखाः ।
२०२० तमे वर्षे अमेरिकादेशः पुनः मानवसहितचन्द्रयोजनां प्राकटयत् । जपानदेशः ‘लूनार्- ए’ एवं ‘सेलीन्’ इति योजनादयस्य सज्जतायाम् अस्ति । भारतदेशोऽपि २००८ तमे वर्षे ‘चन्द्रयानम्- २’ इति योजनाम् आरभ्य अनेकेषां मानवरहितचन्द्रयानस्य योजनां प्रयोजयन् अस्ति । ‘चन्द्रयानम्- २’ एकं यान्त्रिकं चन्द्रपर्यटकम् आप्नोति । रशिया देशः अपि स्व ‘लूना- ग्लोब्’ कार्यक्रमं पुनः उपस्थापयति इति घोषणां कृतवान् अस्ति ।
भूरासायनिकनक्षा द्वारा चन्द्रस्य बाह्यकवचम्, अल्युमिनियुं, सिलिकेट्, पोट्याषियं, सोडियं, क्याल्शियम् इत्यादिनां लवणैः संपन्नम् अस्ति । चन्द्रस्य बाह्यकवचं मुख्यतः आम्लजनकं, सिलिकान्, मेग्नेषियं, अयः क्याल्शियं तथा पित्तलेन समृद्धम् अस्ति । अल्पप्रमाणेन टैटोनियं, युरेनियं, योरियम्, पोटाषियं, एवं जलजनकैः युक्तम् अस्ति ।
==इतिहासः ==
पाश्यात्यवलये चन्द्रस्य विषये वैज्ञानिकविवरणं दत्तवत्सु प्रथमः ग्रीक् तत्त्वज्ञानी ‘अनक्सागोरस्स्’ । एषः सूर्यचन्द्रौ द्वौ अश्मानौ इति, चन्द्रः सूर्यस्य प्रकाशं प्रतिफलति इति तर्कितवान् आसीत् । तस्य नास्तिकदृष्टिकोणत्वात् तं बन्धयित्वा अनन्तरं देशभ्रष्टं कृतवन्तः । मध्ययुगे दूरदर्शकस्य आविष्कारात् पूर्वं चन्द्र कश्चन गोलकः इति परिगणयन्ति स्म । विविधसंस्कृतयः चन्द्रस्योपरि विद्यमानं विन्यासं दृष्ट्वा चन्द्रमानवः, शशः , महिषः इत्यादि- आकाराः सन्ति इति चिन्तितवन्तः आसन् ।
 
 
 
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्