"वि वि गिरि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३४:
 
==देशविदेशे शिक्षा==
बर्हाम्पुरे प्राथमिकशिक्षातः महाविद्यालयाध्ययनपर्यन्तं बर्हाम्पुरे एव आभवत् । कल्लिकोटेमहाविद्यालयतः स्नातनकपदवीम् अलभत । पश्चात् मद्रास्(चेन्नै)नगरस्य सीनियर् केम्ब्रिज़् परीक्षाम् उत्तीर्य क्रि.श. १९१३तमवर्षे ऐर्लेण्डस्य राजधानीं डब्लिन् इति स्थानम् अधुनिकन्यायशास्त्रस्य पदवीं प्राप्तुं गतवान् । तदा तस्मिन् देशे स्वातन्त्र्यन्दोलनं प्रचलिति स्म । तदा गिरिः ऐर्लेण्ड् नयकस्य डेवेलेरा इत्येनं सन्दृष्टवान् । ऐर्लेण्ड्देशे अध्ययनं कुर्वाणाः भारतीयविद्यार्थिनः क्रान्तिकारिणः सङ्घमेकं रचितवन्तः। तस्य देशस्य स्वातन्त्र्यप्राप्तये सङ्घर्षयन्ति स्म । गिरिः अपि एतस्मिन् सङ्घे प्रविष्टवान् । क्रि.श. १९१४तमे वर्षे यदा [[महात्मा गान्धिः]] लण्डन् नगरमागतवन् गिरिः तस्य दर्शनं कृतवान् । अस्य मनसि गान्धिमहात्मा बहुधा प्रभावम् अकरोत् । क्रि.श. १९१९तमे वर्षे ऐर्लेण्ड् देशे ईस्टर् विप्लवः समारब्धः । सः विप्लवः गिरेः नवां दिशाम् अदर्शयत् । [[भारतम्|भरतस्य]] श्रमिकवर्गीयान् अपि ईस्टर् विप्लवः इव भरतियस्वातन्त्र्यान्दोलने उपयोक्तुं शक्यते इति अचिन्तयत् । अत्रान्तरे ईस्टर् विप्लवे वि.वि.गिरिः अपि भागी इति वदन्तिः प्रसारितः। तेन एम्.एल्.पदवीं प्राप्तुये अमेरिकागमनम् अशक्यम् अभवत् । अतः क्रि.श. १९१६तमे वर्षे [[भारतम्|भारतं]] निर्गतवान् ।
 
==वृत्तिजीवनम्==
[[भारतम्]] आगत्य वि.वि.गिरिः बर्हाम्पुरे न्यायवादिनः वृत्तिम् आश्रितवान् । पश्चात् भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य सदस्यः अभवत् । क्रि.श. १९१६तमे वर्षे सञ्चालिते सम्मेलने भागम् अवहत् । स्ववृत्तौ अतिशीघ्रं यशः प्राप्तवान् । क्रि.श. १९२०तमे वर्षे [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतस्य स्वातन्त्र्यसङ्ग्रामे]] पूर्णप्रमाणेन प्रविष्टवान् । गञ्जां प्रदेशे क्रि.श. १९२२तमे वर्षे मदिरापणस्य पुरतः विप्लवनिरतः आरक्षकैः बद्धः बर्हम्पुरस्य कारावारः प्रेषितः । तत्र सत्याग्रहिभ्यः प्रदुष्टाहारः दीयते । कारावारे प्रवृत्तं भ्रष्टाचारं विरुध्य उपवाससत्याग्रहं कृतवान् । पश्चात् कारावारतः विमुक्तः रेल्यनस्य श्रमिकवर्गस्य सङ्घं प्रतिष्ठापितवान् । एषः सङ्घः अतिशीघ्रं संवृद्धः अखिलभारतरेल्वे फेडरेशन् अभवत् । तत्र वि.वि.गिरिः एव अध्यक्षः अभवत् । अनेन एषः कश्चित् समर्थः कर्मकरनायकः अभवत् । क्रि.श. १९३५तमे वर्षे [[भारतसर्वकारः|भारतसर्वकारस्य]] नियमानुगुणं काङ्गेस् पक्षः प्रान्तीयशासनसभानिर्वाचने स्पर्धित्वा सप्तराज्येषु विजयी अभवत् । वि.वि.गिरिवर्यः मद्रास् विधानसभायाः प्रतिनिधित्वेन जितः मन्त्री अभवत् । तस्मै कर्मकराणां, यन्त्रोद्यमानां, सहकारस्य, वाणिज्यस्य, मत्स्योद्यमस्य विभागानां दायित्वं दत्तम् । क्रि.श.१९३८तमे वर्षे अखिलभारतराष्ट्रिययोजनायोगस्य सञ्चालकः अभवत् । आयोगस्य सम्मेलने गिरिवर्यः पञ्चवार्षिकयोजनाः अथवा दशवार्षिकयोजनाः वा रचनीयाः इति उक्तवान् । एषः कर्मकराणां नायकः चेदपि कदापि झटिति कार्यन्यासं न कारयति स्म । श्रमिकवर्गेषु समास्याः भवन्ति चेत् सन्धिकृत्वा समापयितुं यतते स्म । क्रि.श. १९४७तमवर्षस्य अगस्टमासस्य पञ्चदशतमे दिने [[भारतम्|भारतं]] पारतन्त्र्यात् मुक्तं स्वतन्त्रम् अभवत् । क्रि.श. १९४८तमे वर्षे गिरिवर्यः श्रीलङ्कायां भारतस्य राजदूतः इति नियोजितः । अग्रे [[भारतम्|भारतस्य]] संविधानं रचितम् । तदनुगुणं क्रि.श. १९५२तमे वर्षे प्रथमं महानिर्वाचनं सञ्चालितम् । तस्मिन् लोकसभानिर्वाचने स्पर्धित्वा जितः गिरिवर्यः केन्द्रसर्वकारस्य सचिवमण्डले करमकरविभागस्य मन्त्री अभवत् । क्रि.श. १९५४तमे वर्षे इण्डस्ट्रियल् अपलेट् ट्रिब्युनल् वित्तकोशस्य उद्योगिनां विरुद्धम् आगतं न्यायालयनिर्णयं तिरस्कृत्य स्वपदत्यागम् अकरोत् । पश्चात् क्रि.श. १९५७तमवर्षे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]], क्रि.श. १९६०तमवर्षे [[केरळराज्यम्।केरळराज्यस्य]], क्रि.सा. १९६५तमवर्षे [[कर्णाटकम्|कर्णाटाकरास्यय
 
 
 
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्