"पेरम्बलूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Samvith2011 इति प्रयोक्त्रा पेरम्बलूर् मण्डलः इत्येतत् पेरम्बलूर् मण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
पेरम्बलूरुमण्डलं (तमिऴ्: பெரம்பலூர் மாவட்டம் आङ्ग्लम्: Perambalur District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पेरम्बलूरुपत्तनम् । इदं मण्डलं तमिऴ्नाडुराज्यस्य मध्यभागे विद्यमानं, सर्वासु दिशासु भूमिभागेन आवृतं च । इदं मण्डलं १९९५तमवर्षस्य नवेम्बर्‌मासस्य प्रथमदिनाङ्के तिरुचिराप्पळ्ळिमण्डलात् विभक्तम् । अस्य मण्डलस्य जनसंख्या राज्ये न्यूनतमम् ।
तमिळनाडु राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[पेरम्बलूर्]] नगरः |
{{तमिळनाडु मण्डलाः}}
 
==भौगोलिकम्==
पेरम्बलूरुमण्डलस्य विस्तारः १७५२ चतुरश्रकिलोमीटर् । अस्य उत्तरभागे कडलूरुमण्डलम्, दक्षिणे तिरुचिराप्पळ्ळिमण्डलम्, पूर्वदिशि तञ्जावूरुमण्डलम्, पश्चिमे नामक्कलमण्डलं तथा तिरुचिराप्पळ्ळिमण्डलम् अस्ति ।
इदं मण्डलं दक्षिणसमभूमौ अस्ति । अत्रत्यः वायुगुणः सामिशुष्कः । मृत्तिका प्रायेण रक्तमृत्तिका कृष्णमृत्तिका च । मण्डले वार्षिकवृष्टिप्रमाणं ९०८ मिलिमीटर् ।
कावेरीनदी अस्य मण्डलस्य प्रमुखा नदी । तथापि ६८% कृषिः कूपाधारेण एव प्रचलति ।
 
==जनसंख्या==
२०११ जनगणनानुगुणं पेरम्बलूरुमण्डलस्य जनसंख्या ५६४,५११ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ५३६तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२३ (८४० प्रतिचतुरश्रमैल्) । २००१-२०११दशके जनसंख्यावृद्धिः १४.३६% आसीत् । पेरम्बलूरुमण्डले पुं-स्त्री अनुपातः १०००:१००६, साक्षरताप्रमाणं च ७४.६८% अस्ति ।
 
==उपमण्डलानि==
पेरम्बलूरुमण्डले त्रीणि उपमण्डलानि सन्ति
* पेरम्बलूरुः
* कुन्नम्
* वेप्पन्तट्टै
 
==कृषिः वाणिज्यं च==
सम्प्रति, पेरम्बलूरुमण्डलं तमिऴ्नाडुराज्ये मैज़्धारन्यस्य, पलाण्डोः च उत्पादने प्रथमस्थाने अस्ति । राज्यस्य २७% मैज़्‌धान्यम्, ५०% पलाण्डुः च अस्मिन् मण्डले उत्पाद्यते ।
पेरम्बलूरुमण्डले ५००० एकर् विस्तृतस्य विशेषार्थिकवलयस्य (Special Economic Zone) स्थापनं भवेत् इति योजना अस्ति । अस्य विशेषार्थिकवलयस्य कडलूरु, पुदुच्चेरी, चेन्नैनगराणां नौकास्थानकैः, रैलमार्गेण, तिरुच्चीविमानस्थानकेन च सम्पर्कः भविष्यति । अनेन तन्त्रज्ञानोद्यमानाम्, जैविकतन्त्रज्ञानोद्यमानां, औषधीयोद्यमानां, वस्त्रोत्पादनोद्यमानां च एतत् मण्डलं प्रति आगमनं भवेत् इति निरीक्षा अस्ति ।
 
==वीक्षणीयस्थलानि==
सिरुवच्चूरु मथुराकालियम्मदेवालयः – अयं देवालयः पेरम्बलूरु-उपमण्डलस्य सिरुवच्चूरुग्रामे अस्ति । अत्रत्या आराध्यदेवता मथुरा कालियम्मन् । कालीदेव्याः अवतारेषु इदम् अन्यतमम् । प्रतिसप्ताहं सोमवासरे शुक्रवासरे च अत्र पूजा भवति । पङ्गुनीमासस्य (मीनमासस्य) अन्तिमदिने अत्र वार्षिकः उत्सवः समारभ्यते, चित्तिरै (चैत्र)मासस्य प्रथमदिने रथोत्सवः च भवति ।
 
===चेट्टिकुळं देवालयः===
पेरम्बलूरुतः २२ किलोमीटर् दूरे चेट्टिकुळं ग्रामे पुरातनः अरुळमिगु एकाम्बरेश्वरदेवालयः, दण्डायुधपाणिदेवालयः च अस्ति । एतौ देवालयौ ५०० वर्षेभ्यः प्राक् कुलशेखरपाण्ड्येन निर्मितौ इति श्रूयते । चेट्टिकुळं ग्रामात् बहिः शिलायाः उपरि बालदण्डायुधपाणिमन्दिरम् अपि अस्ति । इदं चोळराजैः निर्मितं प्राचीनं मन्दिरम् । मन्दिरस्य ऐतिह्यं वर्णयन्ति शिलाशासनानि अपि अत्र सन्ति ।
 
===रञ्जनकुडिदुर्गः===
अयं दुर्गः पेरम्बलूरुतः १७ किलोमीटर् उत्तरे अस्ति । सप्तदशशतके कर्णाटकनवाबानां प्रशासनकाले कश्चन जागीरदारः एनं दुर्गं निर्मितवान् । अस्य दुर्गस्य अन्तः राजभवनम्, गृहाणि, भूमिगतागाराः, इस्लामदेवालयः च अस्ति ।
 
 
 
{{तमिळनाडु मण्डलाः}}
 
[[de:Perambalur (Distrikt)]]
"https://sa.wikipedia.org/wiki/पेरम्बलूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्