"वि वि गिरि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३७:
 
==वृत्तिजीवनम्==
[[भारतम्]] आगत्य वि.वि.गिरिः बर्हाम्पुरे न्यायवादिनः वृत्तिम् आश्रितवान् । पश्चात् भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य सदस्यः अभवत् । क्रि.श. १९१६तमे वर्षे सञ्चालिते सम्मेलने भागम् अवहत् । स्ववृत्तौ अतिशीघ्रं यशः प्राप्तवान् । क्रि.श. १९२०तमे वर्षे [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतस्य स्वातन्त्र्यसङ्ग्रामे]] पूर्णप्रमाणेन प्रविष्टवान् । गञ्जां प्रदेशे क्रि.श. १९२२तमे वर्षे मदिरापणस्य पुरतः विप्लवनिरतः आरक्षकैः बद्धः बर्हम्पुरस्य कारावारः प्रेषितः । तत्र सत्याग्रहिभ्यः प्रदुष्टाहारः दीयते । कारावारे प्रवृत्तं भ्रष्टाचारं विरुध्य उपवाससत्याग्रहं कृतवान् । पश्चात् कारावारतः विमुक्तः रेल्यनस्य श्रमिकवर्गस्य सङ्घं प्रतिष्ठापितवान् । एषः सङ्घः अतिशीघ्रं संवृद्धः अखिलभारतरेल्वे फेडरेशन् अभवत् । तत्र वि.वि.गिरिः एव अध्यक्षः अभवत् । अनेन एषः कश्चित् समर्थः कर्मकरनायकः अभवत् । क्रि.श. १९३५तमे वर्षे [[भारतसर्वकारः|भारतसर्वकारस्य]] नियमानुगुणं काङ्गेस् पक्षः प्रान्तीयशासनसभानिर्वाचने स्पर्धित्वा सप्तराज्येषु विजयी अभवत् । वि.वि.गिरिवर्यः मद्रास् विधानसभायाः प्रतिनिधित्वेन जितः मन्त्री अभवत् । तस्मै कर्मकराणां, यन्त्रोद्यमानां, सहकारस्य, वाणिज्यस्य, मत्स्योद्यमस्य विभागानां दायित्वं दत्तम् । क्रि.श.१९३८तमे वर्षे अखिलभारतराष्ट्रिययोजनायोगस्य सञ्चालकः अभवत् । आयोगस्य सम्मेलने गिरिवर्यः पञ्चवार्षिकयोजनाः अथवा दशवार्षिकयोजनाः वा रचनीयाः इति उक्तवान् । एषः कर्मकराणां नायकः चेदपि कदापि झटिति कार्यन्यासं न कारयति स्म । श्रमिकवर्गेषु समास्याः भवन्ति चेत् सन्धिकृत्वा समापयितुं यतते स्म । क्रि.श. १९४७तमवर्षस्य अगस्टमासस्य पञ्चदशतमे दिने [[भारतम्|भारतं]] पारतन्त्र्यात् मुक्तं स्वतन्त्रम् अभवत् । क्रि.श. १९४८तमे वर्षे गिरिवर्यः श्रीलङ्कायां भारतस्य राजदूतः इति नियोजितः । अग्रे [[भारतम्|भारतस्य]] संविधानं रचितम् । तदनुगुणं क्रि.श. १९५२तमे वर्षे प्रथमं महानिर्वाचनं सञ्चालितम् । तस्मिन् लोकसभानिर्वाचने स्पर्धित्वा जितः गिरिवर्यः केन्द्रसर्वकारस्य सचिवमण्डले करमकरविभागस्यकर्मकरविभागस्य मन्त्री अभवत् । क्रि.श. १९५४तमे वर्षे इण्डस्ट्रियल् अपलेट् ट्रिब्युनल् वित्तकोशस्य उद्योगिनां विरुद्धम् आगतं न्यायालयनिर्णयं तिरस्कृत्य स्वपदत्यागम् अकरोत् ।

==राजनीतिनिवृत्तिः==
पश्चात् क्रि.श. १९५७तमवर्षे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]], क्रि.श. १९६०तमवर्षे [[केरळराज्यम्।केरळराज्यस्य]], क्रि.सा. १९६५तमवर्षे [[कर्णाटकम्|कर्णाटाकस्य]] च राज्यपालः अभवत् । सक्रियराजनीत्या निवृत्तः च अपि राज्यपालः केवलम् उत्सवमूर्तिः न । सः जनप्रतिनिधिः केवलं नित्यकार्याणि कुर्वन् भवति चेत् समीचीनं न । तेनापि जनसेवायं निरतः भूत्वा मुख्यकार्याणि करणीयानि इति गिरिवर्यः वदति स्म । गिरिवर्यः क्रि.श. १९६७तमवर्षे भारतस्य उपराष्ट्रपतिः इति नियुक्तः । स्वाधिकारपदं सुयोग्यम् उपयुज्य राज्यसभायाः नूतनवर्चः समानीतवान् । क्रि.श. १९६९तमवर्षे अकस्मात् [[भारतस्य राष्ट्रपतयः|भारतस्य राष्ट्रपतिः]] [[जाकिर् हुसैन्]] दिवङ्गतः । तदा [[बेङ्गळूरु]]नगरस्य लाल्बग् काचगृहे सञ्चालिते काङ्ग्रेस् अधिवेशने समितिः नीलं सञ्जीव रेड्डीवर्यं राष्ट्रपतिरिति नियोजयितुं निसचिनोत् ।
 
==
 
 
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्