"वि वि गिरि" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४०:
 
==राजनीतिनिवृत्तिः==
पश्चात् क्रि.श. १९५७तमवर्षे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]], क्रि.श. १९६०तमवर्षे [[केरळराज्यम्।केरळराज्यस्य]], क्रि.सा. १९६५तमवर्षे [[कर्णाटकम्|कर्णाटाकस्य]] च राज्यपालः अभवत् । सक्रियराजनीत्या निवृत्तः च अपि राज्यपालः केवलम् उत्सवमूर्तिः न । सः जनप्रतिनिधिः केवलं नित्यकार्याणि कुर्वन् भवति चेत् समीचीनं न । तेनापि जनसेवायं निरतः भूत्वा मुख्यकार्याणि करणीयानि इति गिरिवर्यः वदति स्म । गिरिवर्यः क्रि.श. १९६७तमवर्षे भारतस्य उपराष्ट्रपतिः इति नियुक्तः । स्वाधिकारपदं सुयोग्यम् उपयुज्य राज्यसभायाः नूतनवर्चः समानीतवान् । क्रि.श. १९६९तमवर्षे अकस्मात् [[भारतस्य राष्ट्रपतयः|भारतस्य राष्ट्रपतिः]] [[जाकिर् हुसैन्]] दिवङ्गतः । तदा [[बेङ्गळूरु]]नगरस्य लाल्बग् काचगृहे सञ्चालिते काङ्ग्रेस् अधिवेशने समितिः नीलं सञ्जीव रेड्डीवर्यं राष्ट्रपतिरिति नियोजयितुं निसचिनोत् । किन्तु तदानीन्तनः प्रधानामन्त्री [[इन्दिरा गान्धिः]] एतत् नाङ्ग्यकरोत् । सा वि.वि.गिरेः नाम सूचितवती । अनिवार्यस्पर्धया काङ्ग्रेस् द्विधा विभक्तः । वि.वि.गिरिः एव जित्वा राष्ट्रपतिः अभवत् । क्रि.श. १९६९तमवर्षस्य अगस्ट् २३तमदिनात् क्रि.श. १९७४तमवर्षस्य २४तमदिनपर्यन्तं राष्ट्रपतिस्थानम् अलङ्कृतवान् । तस्य काले एव क्रि.श१९७१तमे वर्षे बाङ्ग्लाविमोचनसमस्या अभिमुखगता । क्रि.श. १९७५तमे वर्षे अस्मै [[भारतरत्नप्रशस्तिः]] प्रदत्ता । क्रि.श. १९८०तमवर्षस्य जून् मासे वि.वि.गिरिः दिवङ्गतः
 
==
 
 
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्