"वि वि गिरि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
==देशविदेशे शिक्षा==
प्राथमिकशिक्षातः महाविद्यालयाध्ययनपर्यन्तं बर्हाम्पुरे एव आभवत् । कल्लिकोटेमहाविद्यालयतः स्नातनकपदवीम् अलभत । पश्चात् मद्रास्(चेन्नै)नगरस्य सीनियर् केम्ब्रिज़् परीक्षाम् उत्तीर्य क्रि.श. १९१३तमवर्षे [[ऐर्लेण्ड्देशः|ऐर्लेण्डदेशस्य]] राजधानीं [[डब्लिन्]] प्रति आधुनिकन्यायशास्त्रस्य पदवीं प्राप्तुं गतवान् । तदा तस्मिन् देशे स्वातन्त्र्यन्दोलनं प्रचलति स्म । तदा गिरिः ऐर्लेण्ड् नायकस्य [[डेवेलेरा]] इत्यनेन सन्दृष्टवान् । ऐर्लेण्ड्देशे अध्ययनं कुर्वाणाः भारतीयविद्यार्थिनः क्रान्तिकारिणां सङ्घमेकं रचितवन्तःआसन् । तस्य देशस्य स्वातन्त्र्यप्राप्तये सङ्घर्षं कुर्वन्ति स्म । गिरिः अपि एतं सङ्घं प्रविष्टवान् । क्रि.श. १९१४तमे वर्षे यदा [[महात्मा गान्धिः]] लण्डन् नगरमागतवान्नगरम् आगतवान् तदा गिरिः तस्य दर्शनं कृतवान् । अस्य मनसि महात्मा गान्धिः बहुधा प्रभावम् अजनयत् । क्रि.श. १९१९तमे वर्षे ऐर्लेण्ड्देशे ईस्टर् विप्लवः आरब्धः । सः विप्लवः गिरिमहोदयाय नवां दिशाम् अदर्शयत् । [[भारतम्|भारतस्य]] श्रमिकवर्गीयानाम् अपि ईस्टर्विप्लवः सदृशं भारतीयस्वातन्त्र्यान्दोलनं कर्तुं शक्यते इति सः अचिन्तयत् । अत्रान्तरे ईस्टर्विप्लवे वि.वि.गिरिः अपि भागी इति वदन्ती प्रसृता।अतः तेन एम्.एल्.पदवीं प्राप्तुंम् [[अमेरिका]]गमनम् अशक्यम् अभवत् । अतः क्रि.श. १९१६तमे वर्षे [[भारतम्|भारतं]] प्रत्यागतवान् ।
 
==वृत्तिजीवनम्==
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्