"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ky:Миманса; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
मीमांसाशास्त्रम् :-
यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरकां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेशरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
पङ्क्तिः ८:
 
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य चार्वाकजैनबौद्धैः वैदिककर्मकाण्डस्य पर्याप्तां निन्दा कृता । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्योरुपरान्तमपि आत्मा स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां `स्वर्ग’ नामकस्य स्वतन्त्रतत्त्वस्य परिकल्पना कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्ग्प्राप्तिर्भवति । एतत्कृते `अपूर्व’ स्य कल्पनाऽपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गदीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मसम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठति तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।
[[Fileचित्रम्:Yagya at Old Durga Mandir of Banaras 1.jpg|thumb|दुर्गापूजा]]
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरुपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । वेदः कर्मविधानं करोति । वेदा ईशरकृताः सन्ति अतः वेदविहित कर्म एव धर्मः । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् पूर्णसत्यम् अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते ।
मीमांसाशास्त्रम् प्रवर्तकः महर्षिः जैमिनिः । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । तदनुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानम् पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतद् शास्त्रं द्वादशाध्यायेषु विभक्त भवति भगवता जैमिनिना । प्रत्येकस्मिन् अध्याये तृर्भ्योऽधिकाः पादाः विलसन्ति ।
 
== मीमांसाशास्त्रपरिचयः ==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वैतीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेव माचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोदघातः, द्वितीये घातुभेदाः एवं पुनरुक्त्या दिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरुपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्ग्त्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरण्स्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मकौ विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोकतृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभाव विचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –श्रुतेः क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीते –क्रमविशेषाणां एवं अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्द्विविचारः साधितः । चतुर्थे –श्रुत्यादि ष्टप्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य् कृए अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकार विषयिकी चर्चा प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षष्मान् इत्यादि इन्द्रिययुक्तानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मष्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चत्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य् सम्पादनं कर्तव्यम् इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गदीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्ष वचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गेः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गैभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गदिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादिनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म् बाधितं भवति, एवमेव यत्र् धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र् अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे –तस्यौव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृऐभूतयागे तु यागस्य दक्षिणारुपेण् केवलं धेनुर्विहिता । अस्मिन यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरुपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकाडशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्दश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मक तन्त्रमित्युज्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोदघातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्च्यविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य् द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
 
== मीमांसादर्शनस्य आचार्यपरम्परा ==
 
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा `द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः `सङ्कर्षणकाण्ड्’ इति नाम्ना प्रसिद्धा वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।
 
जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरुपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरुपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरुपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशोवर्तते । नवमाध्याये ऊहनिरुपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरुपितः ।
[[Fileचित्रम्:Homa kundam.JPG|thumb|होमकुण्डम्]]
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
# [[आत्रेयः]]
# [[आश्मरथ्यः]]
# [[कार्ष्णाजिनिः]]
# [[बादरिः]]
# [[ऐतिकायनः]]
# [[कामुकायनः]]
# [[लाबुकायनः]]
# [[आलेखनः]]
 
मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।
पङ्क्तिः ३८:
कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।
उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ता पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता `शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।
माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।
पङ्क्तिः ४८:
प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च् । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।
 
== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
“चोदनालक्षणोऽर्थो धर्मः (मी० सू० १-१-२) इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्” (मी० सू० १२-४-४७ ) इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् “स्वाध्यायोऽध्येतव्यः” इति ।
 
ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न कोऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्मात् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्ट अनुमानादिप्रमाणेन कल्त्यते । एवं स्वर्गरुपादृष्टफलं, केबलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफल, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीय भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरुपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरुपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधते
 
''स्वाध्यायोऽध्येतव्यः'' इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधा भावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं बिध्यर्थे भवति । विध्यर्थं एव भावना इति गीयते । भावना द्विविधाअभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थिभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः “स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति हेतोः अध्येतव्यः इति शब्दश्रवणेन तव्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।
पङ्क्तिः ६१:
यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थेः स्वर्गफलं न भवति । यत्तः स्वर्गफलमदृष्टात्मकं भवति । सम्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफल कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरुप मदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषं फल लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्य दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।
 
== कुमारिलमतानुसारमधिकरणविवेचनम् ==
पूर्वमीमांसायां “अथातो धर्मजिज्ञासा” (जै० सू० १-१-१) इति सूत्रेण प्रथमाधिकाणमारभ्यते । अवान्तरप्रकरणस्य नाम अधिकरणमिति । अधिकरण पञ्चावयवात्मकं भवति । यथा –
:'''विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''
पङ्क्तिः ७४:
इति । एतेषां न्यायानुसार –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादि शृतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।
 
== गुरुमतपदौचित्यविचारः ==
 
एवमेव “गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयन्नास्त । समये च तस्मिन् एकस्यां फविककायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्तम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । तत्र तु इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्त भवति इति सति पौनरुक्तम् कथमिति प्रभाकरेण पृष्टे विषये
ऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्व्ं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एव्ं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानौमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
 
== प्रभाकरमतानुसारमधिकरणविवेचनम् ==
''अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत'' इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्य पदार्थः कः ? आचार्यत्वप्राप्यते यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेण आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमितो भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” इति शृत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।
== श्रुत्यादीनां प्रामाण्यविचारः ==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०- ३-३-१४) इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्या स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयः सर्वे दुर्दलाः भविष्यन्ति ।
 
श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलति । “श्योनं ते सदनं कृणोति” (तै० ब्रा० ३-६) इति ब्राह्मण वाक्यानुसार मन्त्रार्थ दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।
पङ्क्तिः १०६:
स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।
 
सततः प्रामाण्ये मीमांसामतानुसारमनुमाने –विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा –“वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतपालभेत्” इति विधेः प्रशंसां करोति । एवमेव “सोऽरोदीत्तदुद्रस्य रुद्रत्वम” इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्तदुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा –श्योनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्तेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामानिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत्, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।
 
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।
पङ्क्तिः ११५:
:'''तस्माद्यज्ञत्सर्बहुतः ॠचः सामानि जज्ञिरे ।'''
:'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'''
: - (ऋ० सं० १०-३०३) इति
एवमुपनिषदि-
यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
पङ्क्तिः १२९:
किंच मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादि कर्मजातं चाल्यते इत्युच्यते । कर्मण मुख्यत्वं प्राबल्यत्वं च दातु मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुं एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाकयितु आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थ, सृष्टिंगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।
== वेदस्य नित्यत्वविचारः ==
भगवता परमर्षिणा जैमिनिना अभिप्रेतं यत् अर्थेन सह शब्दस्य सम्बन्धो भवति, अयं सम्बन्धः औत्पत्तिकरुपेण नित्यो भवति, न तु कृत्रिमः साङ्केतिको वा । तस्य नित्यत्वं स्वाभाविकमित्युच्यते । अतः एव विधिवाक्योत्पन्न ज्ञानमबाधित सत् सत्य भवति वेदशब्दाः अज्ञातविषयाणां ज्ञानं जनयन्ति, अतः ते स्थायिनः भवन्ति । उच्चारणात् पूर्वा शब्दः अव्यक्तावस्थायां तिष्ठति, उच्चारणेन ते एव अव्यक्तभूताः शब्दाः व्यक्ताः भवैष्यन्ति । अतः शब्दो नित्यः । उत्पन्ने शब्दे करणरुपक्रिया न सम्भवति । उच्चारणानन्तरमपि शब्दः तथैव तिष्ठति किन्तु अव्यक्ताव्स्थायाम्, तदा तस्य नाशः न हि भवति । तस्मात् वेदो नित्यः इति । वेदशब्दानां नित्यत्वात् शब्दैः प्रतिपाद्यमाना देवता अपि नित्या एव भवति । एतेन देवतानामपि नित्यत्वं स्थापितं भवति ।
 
== देवतानामेकत्वविचारः ==
 
ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति ।
एकं सद्विप्र बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्यौः इति । एतेषु पृथिव्याः देवता –अग्निः, अन्तरिक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्यौः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापिः वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् –“तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति-“ नरराष्ट्रमिव” इति । यथा एकस्यैव राज्ञः कृते सर्व राष्ट्रं भवति तद्वत् एकस्य परमात्मनः कृते सर्वं भवति । सर्वं परमात्मस्वरुपमित्यर्थः ।
 
पङ्क्तिः १४१:
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छृतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते ॥
== मीमांसादर्शने ज्ञानसमीक्षा ==
मीमांसादर्शनेऽपि प्रमाजन्यस्य ज्ञानस्य प्रामाण्य्ं स्वीकृतमस्ति । मीमांसायाः प्रमाणलक्षणमस्ति -`कारणदोषबाधकज्ञानरहितं गृहीतग्राहि ज्ञानं प्रमाणम्’ इति । अर्थात् भ्रमरहितस्य संशयरहितस्य च अज्ञातस्य वस्तुनोऽनुभवः प्रमा कथ्यते । मीमांसादर्शने प्रमाणानां संख्या षट् वर्तते । यद्यपि प्रभाकरः पञ्चैव प्रमाणानि स्वीकरोति तथापि कुमारिलभट्टमते षट् प्रमाणानि स्वीकृतानि-प्रत्यक्षम अनुमानम्, उपमानम्, शब्दः, अर्यपत्तिः, अनुपलब्धिश्चेति । दर्शनेषु प्रत्यक्षानुमानयोः सन्दर्भे प्रायेण विवादो नास्ति । यद्यपि अनुमानप्रमाणविषये मीमांसकाः पञ्चावयववाक्यानि नैव स्वीकुर्वन्ति तथापि प्रतिज्ञाहेतूदाहरणनीति त्रीण्येव वाक्यानि परार्थानुमाने प्रतीपदयन्ति । मीमांसायाम् उपमानमपि भिन्नमस्ति । तथाहि तत्र उपमितिः आप्तवाक्यस्य स्मरणपूर्विका भवति, दृष्टव्स्तुनः सादृश्यात् स्मृतवस्तुनः सादृश्यमनुमाय पदार्थज्ञानमत्र विधीयते अतः मीमांसोक्ते उपमानप्रमाणे शब्दानुमानयोइपि संयोगोरस्ति ।
मीमांसादर्शने शब्दप्रमाणस्यापि महत्त्वमस्ति । वाक्येन शब्दप्रमाणेन वा प्रायेण वेदवाक्यानि गृहीतानि सन्ति, किन्तु लौकिकवाक्यान्यपि आप्तेन कथितानि चेत् तेषां प्रामाण्यं स्वीक्रियते । मीमांसादर्शने वाक्यं द्विधा प्रतिपादितम् सिद्धार्थकं विधायकं चेति । वेदेषु उपनिषद्वाक्यानि सिद्धार्थकानि सन्ति यानि च ब्रह्मणः स्वरुपादेः प्रतिपादकानि वर्तन्ते । अपराणि विधायकानि विधिवाक्यानि ब्राह्मणादिषूक्तानि सन्ति । तानि विधिवाक्यानि विनियोगवाक्यरुपेणापि प्राप्यन्ते । तानि सर्वाणि प्रमाणम् ।
मीमांसामतानुसारेण वेदप्रतिपादितं वस्तु कर्मरुपमस्ति न तु ज्ञानरुपम् यतो हि मीमांसादर्शने ज्ञानबोधकानां वाक्यानां तात्पर्यमपि विधिबोधकत्वमेवाभिमतम् । विहि तकर्माणि धर्मरुपाणि सन्ति, धर्मस्य प्रतिपादनां च मीमांसाया मूलभूतम् उद्देश्यं वर्तते । धर्मस्य विशेषता इयमस्ति यत् वेदविहितत्वात् तेषां प्रामाण्यं स्वीक्रियते । एवं चेत् वेदानां स्वतः प्रामाण्यम् अस्ति। वेदानां प्रामाण्यस्य प्रतिपादनमपि मीमांसायाः मुख्यं लक्ष्यमस्ति ।
मीमांसोक्तमतेन वेदाः नित्याः सन्ति । नित्यत्वादेव ते अपौरुषेयाः सन्ति अर्थात् वेदाः कस्यापि पुरुषस्य कृतिर्नास्ति । ऋषिभिः ऋचां दर्शनं कृतं, अतस्ते वेदानां रचयितारो न वर्तन्ते, ते केवलं मन्त्रदृष्टारः सन्ति । मीमांसामते वेदानां कर्त्ता ईश्चरो नास्ति । वेदे लोके च आप्तत्वात् शब्दप्रामाण्यमस्ति । शब्दो नित्यो वर्तते । शब्दोच्चारणं शब्दोत्पत्तिर्नास्ति । यतोहि उच्चारणात् पूर्व शब्दो विद्यमान आसीत् । यदि शब्दोऽनित्यः स्यात् तदा उच्चारणभेदेन तस्यानेकानि रुपाणि स्युः, किन्तु एकस्य शब्दस्य एकमेव कारणं भवति । शब्दस्य अर्थेन सह सम्बन्धोऽपि स्वाभाविक एवास्ति, कृत्रिमो नास्ति । अयमेवापौरुषेयो वेदो धर्मे प्रमाणम् अस्ति ।
मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदर्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकानि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –
# [[उत्पत्तिविधिः]]
# [[विनियोगविधिः]]
# [[अधिकारविधिः]]
# [[प्रयोगविधिश्च]]
 
कर्मणः स्वरुपस्य प्रतिपादयित्री विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सा प्रयोगविधि कथ्यते ।
=== अर्थापत्तिः ===
कस्याप्यर्थस्य अन्यार्थं विना सिद्धौ असति तस्य सिद्धये पदार्थान्तरस्य कल्पना अर्थापत्तिर्भवति । यथा ‘पीनो देवदत्तो दिवा न भुक्ते, इत्यादौ भोजनाभावे पीनत्वं सिद्ध नास्ति । अत्र दिवाभाजनस्य अभावोऽस्ति, पीनत्वसिद्धये तदतिरिक्तस्य रात्रिभोजनस्य कल्पनाक्रियते । इदमेवार्यापत्तिप्रमाणम् । प्रत्यक्षानुमानशब्देस्वस्यान्तर्भावोऽसम्भ्व आसीत् अतः स्वतंत्रप्रमाणरुपेणेदं स्वीकृतम् । अर्थापत्तिर द्विधा प्रतिपादिता श्रुतार्थापत्तिः दृष्टार्थापत्तिश्च ।
=== अनुपलब्धिः ===
अभावपदार्थस्य ज्ञापकं प्रमाणम् अनुपलब्धिर्भवति । यथा ‘इह भूतले घटोनास्ति’ ।
मीमांसायां प्रमाणानां स्वतः प्रामाण्यं स्वीकृतमस्ति, अर्थात ज्ञानस्य प्रामाणिकतां निर्धारयितुं ज्ञातेतरस्य कस्यापि साधनस्य आवश्यकता नास्ति । ज्ञानं प्रमाण्येन सहैव आविर्भूतं भवति । अतः मीमांसायां ज्ञानस्य स्वतः प्रामाण्यमेवाभीष्टम् अस्ति । दृष्टिकोणस्य भेदात् भ्रमज्ञानमुत्पद्यते । यथा ‘इदं रचतम्’ इत्यादौ ‘इदं’ पदेन प्रत्यक्षदृष्टस्य पदार्थस्य ‘रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थास्य ‘रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थान्तरस्य भेदकत्वं न प्रतीयते, दृष्टिभेदात् रजतस्य मिथ्याप्रतीतिर्जायते । इयमेव अख्यातिरस्ति ।
 
== प्रमेयतत्त्वसमीक्षा ==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।
पङ्क्तिः १६९:
शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
== आत्मविचारः ==
आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरुपिणं कर्मस्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति ।
आत्मनो ज्ञानम् आत्मसंवित्तिद्वारा जायते इति कुमारिलभट्टस्य मतमस्ति । एतदनुसारं आत्मा ज्ञानस्य कर्त्ता कर्म च युगपद भवति । प्रभाकर इदं न स्वीकरोति । प्रभाकरमतेन प्रत्येकं वस्तुज्ञाने तेनैव ज्ञानेन आत्मज्ञानमपि कर्तृरुपे प्रकाशितं भवति । आत्मैव अहंप्रत्ययस्य विषयो वर्तते ।
== कर्ममीमांसा ==
धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अतएव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलभतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् ।
अनेन निष्कामेन सकामेन वा कर्मणा ‘अपूर्व’ पदार्थस्योत्पत्तिर्भवति । वस्तुतो वेदविहितस्य कर्मणः सम्पादनमेव मानवजीवनस्योद्देश्यमस्ति । अस्मादुत्पन्नम् अपूर्वमेव स्वर्गस्य प्रापकमस्ति । अर्थात् निष्कामधर्माचरणेन आत्मज्ञानेन च प्राणिनां सञ्चितकर्माणि नश्यन्ति । येन जननमरणयोः क्रमोऽवरुध्यते, जीवश्च शाश्वतसुखे लीनो भवति ।
== मीमांसादर्शने ईश्वरविचारः ==
यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभिष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरुपेण ईश्वरः स्वीकर्त्तुं शक्यते । अतएव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् । ‘सेश्वरमीमांसा’ नामकस्य ग्रन्थस्यापि इदमेवोद्देश्यमस्ति । प्रभाकरविजयेऽपि स्पष्टरुपेण ईश्वरोऽभिमतः । तथापि मीमांसकानाम् ईश्वर्ः श्रुतिसिद्धौ वर्तते, न तु अनुमानसिद्धः ।
== मीमांसादर्शने मोक्षविचारः ==
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अतएव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थश्च अभिमताः । एभिस्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरुपेऽवतिष्ठति ।
पङ्क्तिः १९८:
* [[माधवाचार्यः]]
* [[अप्पय्यदीक्षितः]]
 
[[वर्गः:मीमांसादर्शनम्]]
[[वर्गः:आस्तिकदर्शनानि]]
Line २१२ ⟶ २१३:
[[ja:ミーマーンサー学派]]
[[ko:미맘사 학파]]
[[ky:Миманса]]
[[lt:Mimansa]]
[[ne:मीमांसा]]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्