"कैकेयी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kaikeyi vilap.jpg|thumb|'''कैकेयीप्रलापः दशरथस्य सान्त्वनम्''']]कैकेयी केकयदेशस्य [[अश्वपतिः|अश्वपतिमहाराजस्य]] पुत्री। [[दशरथः|दशरथस्य]] प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः [[मन्थरायाःमन्थरा|मन्थरायाः]] दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।
तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।
==[[रामायनम्रामायणम्|रामायणे]] कैकेय्याः पात्रम्==
कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव [[रामः|रामस्य]] वनाभिगमनम् भवति।
केकयराजस्य पुत्री कैकेयी [[दशरथः|दशरथमहाराजस्य]] तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् ।
"https://sa.wikipedia.org/wiki/कैकेयी" इत्यस्माद् प्रतिप्राप्तम्