"कौसल्या" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
कौसल्या कोसलदेशस्य [[भानुमान्|भानुमतः]] पुत्री। [[दशरथः|दशरथस्य]] ज्येष्ठा पत्नी। मर्यादापुरुषोत्तमस्य [[रामः|रामस्य]] माता । विवाहानन्तरं [[कोसलराज्यम्]] दशरथस्य राज्ये एव अन्तर्गतम् ।
कौसल्या [[रामः|रामस्य]] माता राज्ञः [[दशरथः|दशरथस्य]] ज्येष्ठपत्नी च । तस्याः उल्लेखः [[रामायणम्|रामायणे]] [[अयोध्याकाण्डम्|अयोध्याकाण्डे]] आगाच्छति। सा एका तपस्विनी स्त्रिः।
==कौसल्यायाः मातृवात्सल्यं पतिभक्तिः च==
रामायणे कौसल्यायाः मातृवात्सल्यं पातिव्रत्यं च आदर्शरूपेण दृश्यते । यदा दशरथमहाराजः रामं ’ वनं गन्तव्यम् ’इति सूचयति तदा कौसल्याया: हृदयं शोकाकुलं भवति । कुपिता भूत्वा सा पतिम् आक्षिपति ’वनं न गच्छतु’ इति रामं सूचयितुं वदति । परन्तु यदा [[रामः]] स्वधर्मविवरणं करोति तदा दुःखिता सा पितृवाक्यपरिपालनार्थं अनुमतिं यच्छति। तस्याः सीतायाः प्रति अपि वास्तल्यं ज्ञायते । यदा [[सीता]] रामेण सह वनं गन्तुम् उद्युक्ता तदा कौसल्या [[सीता|सीतायाः]] रक्षणं कर्तुं रामम् आज्ञापयति।
कौसल्या पत्नीधर्मं सम्यक् आचरति। बहुपत्नीव्रतस्य दशरथमहाराजस्य [[कैकेयी|कैकेयीं]] प्रति अधिकप्रीतिप्रदर्शनं दृष्ट्वा अपि कौसल्यायाः पतिं प्रति श्रद्धा न क्षीणा न भवति। यदा कैकेय्याः वचनं श्रुत्वा दशरथः रामं यैवराज्याभिषेकस्थाने वनवासाय आज्ञां ददाति तदा कौसल्या पतिं बोधयति आक्षिपति च। रामस्य वनगमनानन्तरं यदा दशरथः दुःखितः भवति तदा कौसल्याम् आश्रयति ।तदा कौसल्या पतिशोकनिवारणे पतिसेवायां च व्रतरूपेण आत्मानं नियोजयति।
"https://sa.wikipedia.org/wiki/कौसल्या" इत्यस्माद् प्रतिप्राप्तम्