"जलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Water
(लघु) r2.7.3) (Robot: Adding frr:Weeder; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Water droplet blue bg05.jpg|right|thumb|जलबिन्दुः]]
“जलमेव जीवनम्” इति सर्व-प्रसिध्दमस्ति । वस्तुतः प्रकृतिप्रदत्त्त- साधनेषु जलमेकं महत्वपूर्णं साधनमस्ति । इमं विना सृष्टेः कल्पना अपि कर्तुं न शक्यते । इति तु अस्माकं भारतीय- मान्यता अस्ति । जले संसारस्य उद्भवः भवति पुनश्च महाप्रलये संसारः जले निमग्नः भवति । दुर्गासप्तशतीति ग्रन्थे मधु-कैटभौ विष्णुं कथयतः यत्
:'''आवां जहि न यत्रोर्वि सलिलेन परिप्लुता'''
अर्थात् तस्मिन् समये पृथ्व्याः संकल्पना नासीत्, फलतः भगवान् विष्णु स्व जानुनौ तयोः बधं कृतवान् । एवमेव पाश्चात्य-विचारकः Goeche महोदयः अपि प्रतिपादितवान् यत्- “ सर्वेषां वस्तूनाम् उत्पत्तिःजलेनैव जाता एवं जलेन एव सर्वेषां वस्तूनां जीवनमस्ति ।
 
अस्माकं भारतीय धर्मग्रन्थानामभिमतमस्ति यत् सर्वेषां संसारस्थानां जीवानां वस्तूनां पदार्थानाञ्चोत्पतिः पञ्चतत्वेनैव जातः- पृथ्वी, जलं, तेजः , वायुः , आकाशः इत्येतैः । वस्तुतः एषु वस्तुसु सर्वाधिकः भागः जलस्य एव भवति । यथा मानवशरीरे ६५% जलमस्ति । वृक्षेषु ४०% जलमस्ति । जलीयपादपेषु ९० % पर्यन्तं जलमस्ति । एवं प्रकारेण जलं विना सृष्टेः कल्पना कल्पना एव भविष्यति । वस्तुतः जलस्य निर्माणं हाइड्रोजनस्य परमाणुद्वयम् आकसीजनस्य परमान्वेकं परस्परं मिलित्वा भवति । इदं शुध्दं जलं भवति, परं इत्थं प्रकारं जलं तु कुत्रचिदेव प्राप्यते । सर्वत्र तु शुध्दमशुध्दं वा जलं प्राप्यते ।इदं वर्णहीनं, स्वादहीनं, गन्धहीनञ्च भवति । अस्यरुपत्रयं वर्तते । वायुरुपं (वाष्परुपं) कठोररुपं (र्फरुपं) तरलं (पानीयं) रुपञ्च । यथा प्रतिपादितं यत् जले एव धरा अस्ति । अतः पृथ्व्यां जलस्य अंक्षुण्णः भण्डारः वर्तते । पृथ्व्याः ७/१० भागम् अर्थात् १४६० मिलियन् घनमीटरं जलं वर्तते । परं पानीय-जलस्य मात्रा ०.०५२% एव वर्तते । अर्थात् ७ लक्ष ६०,००० घन की.मी वर्तते ।
 
== बाह्यसम्पर्कतन्तुः ==
* [http://stats.oecd.org/wbos/Index.aspx?DataSetCode=ENV_WAT OECD Water statistics]
* [http://www.worldwater.org The World's Water Data Page]
* [http://www.fao.org/nr/water/aquastat/main/index.stm FAO Comprehensive Water Database, AQUASTAT]
* [http://worldwater.org/conflict.html The Water Conflict Chronology: Water Conflict Database]
* [http://ga.water.usgs.gov/edu/ US Geological Survey Water for Schools information]
* [http://water.worldbank.org/water/ Portal to The World Bank's strategy, work and associated publications on water resources]
 
 
[[वर्गः:भौतशास्त्रम्]]
Line ६८ ⟶ ६७:
[[fiu-vro:Vesi]]
[[fr:Eau]]
[[frr:Weeder]]
[[fur:Aghe]]
[[fy:Wetter]]
"https://sa.wikipedia.org/wiki/जलम्" इत्यस्माद् प्रतिप्राप्तम्