"मध्यमव्यायोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Gathotkaca-paraga.png|thumb|300px|left|जपानीकल्पनानुसारं घटोत्कचः]]
 
भासकविकृतेषु संस्कृतनाटकेषु '''"मध्यमव्यायोगः"''' कश्चन व्यायोगः । [[दशरूपकम्|दशरूपके]] नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! [[साहित्यदर्पणः|साहित्यदर्पणग्रन्थे]] [[विश्वनाथः]] रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च [[नाटकम्|नाटकं]], [[प्रकरणम्|प्रकरणं]], [[भाणः]] [[प्रहसनम्|प्रहसनं]], [[डिमः]], [[व्यायोगः]], [[समवकारः]], [[वीथी]], [[अङ्कः]] [[ईहामृगः]] च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते ।
==व्यायोगस्य लक्षणम्==
Line २१ ⟶ २३:
अनेन व्यायोगद्वारा भासः अनेकानि भारतीयजीवनमौल्यानि प्रेक्षकाणां हृदयं प्रापयति ।
==मध्यमव्यायोगस्य कथावस्तु==
केशवदासः नाम ब्राह्मणः सपत्नीकः त्रिभिः पुत्रैः सह हिडिम्बावने गच्छन् आसीत् । तदा भीमसेनपुत्रः घटोत्कचः तत्र आगत्य तेषां मार्गम् अवरुध्दवान् । सः ब्राह्मणं वदति-“मम मातुः उपवासनिसर्गार्थं (उपवाससमापनार्थं) कश्चन मानुषः अपेक्षितः । अतः तव त्रिषु पुत्रेषु अन्यतमं (एकं) विसर्जय। अन्यथा सर्वानपि नेष्यामि” इति । तदा गन्तुम् उद्युक्तं ज्येष्ठपुत्रं वारयन् केशवदासः वदति-“ ज्येष्ठम् इष्टतमं न शक्नोमि परित्यक्तुम्” इति । तदा ब्राह्मणी –“ यथार्थोयथार्यो ज्येष्ठमिच्छति, तथाहमपि कनिष्ठम् इच्छामि” इति वदन्ती कनिष्ठस्य गमनं वारयति । तदा पितवत्सलःपितृवत्सलः मध्यमः एव घटोत्कचेन सह गमनाय प्रतिष्ठते ।
आसन्नमरणः सः मध्यमः घटोत्कचं संप्रार्थ्य पिपासाप्रतीकारार्थं (निवारणार्थं) कञ्चित् जलाशयंजलाशयम् अन्विष्य वनेवनं गतः । चिरायमाणे तस्मिन् मातुः आहारकालः अतिक्रामेत् इति शङ्कया घटोत्कचः –“भोः मध्यम ! शीघ्रमागच्छ” इति उच्चैः असकृत् (बहुवारं) आह्वयति।
तदा वनवासाय आगतानां पाण्डवानाम् आश्रमोऽपि तस्मिन् एव वने आसीत् । तस्मिन् समये मध्यमपाण्डवः भीमः एकः एव आश्रमे आसीत् । अन्ये यागं द्रष्टुं महर्षेः [[धौम्यः|धौम्यस्य]] आश्रमं गताः आसन् । घटोत्कटस्य ‘मध्यम’ इति आह्वानशब्दं पाण्डवमध्यमः भीमः आशृणोत् । “ मामेव कश्चिद् आह्वयति” इति विचिन्त्य भीमः तत्र उपस्थितः भवभवति । आगतं भीमम् अभिज्ञाय केशवदासः तं शरणं गच्छति । भीमः तस्मै अभयं दत्त्वा स्वयमेव घटोत्कचम् अनुगन्तुम् अङ्गीकरोति । घटोत्कचं हिडिम्बायाः पुत्रः इति ज्ञात्वा भीमः तस्य बलपरीक्षां कर्तुम् इच्छन् – “ शक्तः चेत् बलात्कारेण मां नय” इति वदति । ततः प्रवृत्ते युध्दे भीमं पराजेतुम् अशक्तः घटोत्कचः भीमं पूर्वसमयं (पूर्वप्रतिज्ञां) स्मारयति । तदा भीमः तम् अनुसरन् हिडिम्बायाः वासस्थानं प्राद्नोतिप्राप्नोति, घटोत्कचोऽपि मातृवाक्यात् तमतम् आत्मनः पितरं विज्ञाय नमस्करोति । भीमः अपि तं परिष्वज्य(आलिङ्गय) आशीर्भिः अभिनन्दति । भरतवाक्येन व्यायोगः समाप्तिम् एति ।
==मध्यमव्यायोगस्य भाषा==
मध्यमव्यायोगस्य भाषा सरला हृद्या च । संस्कृतच्छात्राः अपि इदं नाटकं सुलभतया अवगन्तुं प्रभवन्ति । भीमघटोत्कचयोः संवादस्य कश्चन भागः अत्र उदाहरणत्वेन दीयते –
भीमः- आर्य ! मा मा एवम् । क्षत्रियकुलोत्पन्नः अहम् । पूज्यतमाः खलु ब्राह्मणाः । तस्मात् मच्छरीरेण ब्राह्मणशरीरं विनिमातुम् इच्छामि ।
Line ३८ ⟶ ४०:
भीमः – कथं रुष्यति ? मर्षयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देन अभिधीयन्ते । अतः एवं मया अभिहितम् ।
घटोत्कचः- भीतानाम् आयुधम् गृहीतम् ….----------
==मध्यमव्यायोगस्य जीवनदृष्टिः==
• विपदि धैयम्धैर्यम् –स्वयं भीतः अपि केशवदासः पत्नीपुत्रान् समाश्वास्य अपायं वारयितुं प्रयत्नं करोति ।
• शरणागतरक्षणम् – ब्राह्मणकुटुम्बस्य रक्षणाय भीमः स्वयं गन्तुं सिध्दः भवति ।
• त्यजेदेकं कुलस्यार्थे – त्रयः अपि ब्राह्मणकुमाराः कुटुम्बस्य रक्षणान्रक्षणार्थं स्वप्राणान् दातुं सिध्दाः भवति ।
• मातृदेवो भव – घटोत्कचस्य मातृभक्तिः अस्मिन् नाटके अत्यन्तं प्रधाना विद्यते ।
• क्षमा- भीमः अज्ञानेन घटोत्कचेन कृतम् अपराधं क्षमते ।
==सूक्तयः==
१. ज्येष्ठो भ्राता पितृसमः ।
२. आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेणाज्येष्ठपुत्रेण तार्थतेतार्यते
३. माता किल मनुष्याणां दैवतानां च दैवतम् ।
==मध्य्मव्यायोगस्य पात्राणि==
मध्यमव्यायोगे षङ्पुरुषपात्राणिषड्पुरुषपात्राणि द्वे स्त्रीपात्रे च सन्ति । वृध्दः ब्राह्मणः केशवदासः, तस्य त्रयः पुत्राः, भीमः घटोत्कचश्च षड् पुरुषपात्राणि । ब्राह्मणी, हिडिम्बा च द्वे स्त्रीपात्रे । भीमः अस्य नायकः ।
 
 
 
[[वर्गः:नाटकम्|मध्यमव्यायोगः]]
[[en:madhyamavyayoga]]
"https://sa.wikipedia.org/wiki/मध्यमव्यायोगः" इत्यस्माद् प्रतिप्राप्तम्