"सरस्वती देवी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying be:Сарасваты
(लघु) r2.7.3) (Robot: Adding eo:Sarasvati; अंगराग परिवर्तन
पङ्क्तिः २१:
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।
 
== ज्ञानदात्री ==
एषा देवी सर्वस्य ज्ञानस्य, [[कलाः|कलानां]], [[विज्ञानम्|विज्ञानस्य]] च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं [[हंसः]] मयूरश्च । चित्रेण पिच्छकलापेन [[मयूरः]] विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव [[मोक्षः]] इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘[[ज्ञानमार्गः]]’ ‘[[भक्तिमार्गः]]’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।
 
== आराधनफलम् ==
[[नवरात्रम्|नवरात्रोत्सवे]] आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । [[दुर्गापूजा|दुर्गापूजया]] दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । मन्दबुद्धीनां सरस्वत्याः तत्त्वानि अधिकहितकराणि भवन्ति । बौद्धिकक्षमतायाः विकासनार्थं चित्तस्य चञ्चलतां दूरयितुं सरस्वतीसाधना विशेषतया प्रयोजनकारिणी वर्तते । मस्तिष्कतन्त्रसम्बद्धेषु अनिद्रा, शिरोवेदना, आयासः, पीनसः इत्यादिषु रोगेषु सरस्वतीसाधना प्रभावशालिनी भवति । चिन्तनशक्तेः अभावः, निर्णये द्वैविध्यम्, विस्मरणम्, दीर्घसूत्रता, सर्वविषयेषु अरुचिः, इत्यादीनि शमयितुम् अपि सरस्वत्याः आराधनम् आवश्यकं भवति । शिक्षायाः विषये जनमानसेषु अधिकोत्साहं जागरयितुम्, अध्यात्मिकस्वाध्यायस्य गम्भीरतायाः ज्ञापनार्थं सरस्वत्याः पुजनं भवति । धनार्जनस् , बलवर्धनस्य, साधनसङ्ग्रहस्य, आमोदप्रमोदस्य, च अपेक्षया बुद्धिशक्तिः अमूल्यं सम्पत् ।
 
पङ्क्तिः ३०:
सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन ई शनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सर्वस्वत्याः पजां कुर्वन्ति ।
 
== सरस्वतीस्तोत्राणि ==
::सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
::विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
पङ्क्तिः ६३:
[[de:Saraswati]]
[[en:Saraswati]]
[[eo:Sarasvati]]
[[es:Sarasvati]]
[[fa:سرسوتی]]
"https://sa.wikipedia.org/wiki/सरस्वती_देवी" इत्यस्माद् प्रतिप्राप्तम्