"एवं बहुविधा यज्ञा..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
एवम् अनेकप्रकारकाः यज्ञाः वेदस्य आदिमे भागे कर्मकाण्डे विवृताः सन्ति । तान् सर्वान् कर्मणः एव उत्पन्नान् अवगच्छ । अनेन प्रकारेण यथार्थं जानासि तर्हि निष्कामकर्मयोगद्वारा संसारबन्धनात् मुक्तः भवसि ।
 
==शाङ्करभाष्यम्==
एवमिति। एवं यथोक्ता बहुविधाबहुप्रकारा यज्ञां वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे, वेदद्वारेणावगम्यमाना ब्रद्मणो मुखे वितता उच्यन्ते, तद्यथा 'वाचिहि प्राणं जुहुमः' इत्यादयः। कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि तान्सर्वाननात्मजान्। निर्व्यापारो ह्यात्मा। अत एवं ज्ञात्वा विमोक्ष्यसेऽशुभात्, नमह्यापारा इमे निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वास्मात्सम्यग्दर्शनान्मोक्ष्यसे संसारबन्धनादित्यर्थः ।।32।।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/एवं_बहुविधा_यज्ञा..." इत्यस्माद् प्रतिप्राप्तम्