"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
==तात्पर्यम्==
अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।
==शाङ्करभाष्यम्==
 
तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/यज्ज्ञात्वा_न_पुनर्मोहम्..." इत्यस्माद् प्रतिप्राप्तम्