"पुरन्दरदासः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding kn:ಪುರಂದರದಾಸರು
(लघु) The file Image:Purandara-Dasa.jpg has been removed, as it has been deleted by commons:User:JuTa: ''No license since 2012-02-05. Please read the intro of commons:COM:L, about [[commons:Commons:Essential information|essential informati...
पङ्क्तिः १:
 
[[File:Purandara-Dasa.jpg|thumb|right|220px|पुरन्दरदासः]]
==पीठिका==
[[भारतम्|भारतदेशस्य [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[पुणे]] (पुण्यपत्तनम्) जनपदस्य [[पुरन्दरदुर्गम्|पुरन्दरदुर्गे]] '''पुरन्दरदासः''' क्रि.श १४८० तमे वर्षे जन्म प्राप्तवान् । एतस्य पितुः नाम वरदप्पः, मातुः नाम लक्ष्मम्मा इति । एतस्य पिता बहु धनिकः आसीत् । पुरन्दरदासस्य पुरातं नाम श्रीनिवासनायकः अथवा शीनप्पनायकः इति । एतस्य पत्न्याः नाम सरस्वतीयम्म। एतयोः चत्वारः पुत्राः आसन् वरदप्पः, गुरप्पः, अभिनवप्पः, मध्वपतिः चेति । हरिदासपरम्परयां समागताः गीताकाराः एते । पुरन्दरदासः [[दासपरम्परा|दासपरम्परायाम्]] अग्रगण्यः । नारदस्य अवतारः एषः इति जनाः विश्वसन्ति । कर्णाटकसङ्गीतस्य पितामहः इति अस्य खाति । एषः कथं पुरन्दरदासः अभवत् इति एका लघुकथा अस्ति । एतस्य पत्नी सरस्वतम्म उत्तमा सात्विका, उदारमनाः सदगुणी च आसीत् । पाण्डुरङ्गः(श्रीहरिः) निर्धनब्राह्मणस्य वेषं दृत्वा षण्मासान् यावत् शीनप्पनायकं ’दानं करोतु’ इति याचनां कृत्वा अन्ते जामिताम् अनुभूय सरस्वतियम्मायाः समीपं गतवान् । तदा सा करुणया स्वनासाभरणं दत्तवती । एतस्य नासाभरणस्य कारणतः शीनप्पनायकस्य मनसि वैराग्यम् आगत्य सः पुरन्दरदासः अभवत् इति कथा श्रूयते । पुरन्दरदासः [[व्यासरायः|व्यासरायस्य]] शिष्यः आसीत् । भक्तिरसेन पूरितानि अनुभवगीतानि रचितवान् । [[कर्णाटकराज्यम्|कर्णाटके]] सर्वत्र एतानि गीतानि गीत्वा भक्तिपथं प्रसारयितुं कारणीभूतः अभवत् । एतस्य गीतेषु पुरन्दरदासः इति अङ्कितम् अस्ति । पुरन्दरदासः शलिवाहनशके १४८६ तमे वर्षे रक्ताक्षिसंवत्सरे पुष्यमासस्य अमावास्या दिने स्वस्य ८४ तमे वर्षे दिवङ्गतः । अनेन सह दासपद्धतेः अन्ये च प्रमुखाः [[कनकदासः]] [[जगन्नाथदासः]] [[विजयदासः]] [[कमलेशविठलः]] इत्यादयः गीसङ्गीतैः लोके भक्तिमार्गं समदर्शयन् । पुरन्दरदासस्य सर्वेषां कीर्तनानाम् अने पुरन्दरविठल इति अङ्कितं दृश्यते । पुरन्दरदासस्य १०००कीर्तनानि अद्यापि उपलभ्यानि सन्ति । अस्य सर्वाणि कीर्तनानि कन्नाडजानां कृते भक्तिमार्गप्रचोदकानि सन्ति । कर्णाटकसङ्गीतविदुषाम् अतिप्रियः दासवरेणयः । ५लक्षाधिकपद्यानि लिखामि इति पुरन्दरदासस्य सङ्कल्पः आसीत् । किन्तु ४,७५०००पद्यानि विरचय्य स्वावतारं समापितवान् । तस्य पुत्रः२५०००पद्यानि विरचय्य तस्य आशयं समापितवान् इति पण्डितानाम् अभिप्रायः अस्ति ।
"https://sa.wikipedia.org/wiki/पुरन्दरदासः" इत्यस्माद् प्रतिप्राप्तम्