"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ka:დასავლეთი გატები; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Anamudi 1.jpg|thumb|300px| दक्षिणभारते अत्युन्नतः आनैमुडीपर्वतः]]
 
पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्य सह्यपर्वत इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठ भूमिम् अरब्बि समुद्रस्य सूक्ष्मम् कोङ्करण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे [[तपतीनदी|तपतीनद्याः]] दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यन्ते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः [[महाराष्ट्रम्]], [[गोवा]], [[कर्णाटकम्]], [[केरळम्]], [[तमिळ्नाडु]] राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः। अत्र सहस्राधिकविधाः तरुलताः, १३९विधाः सस्तनिनः, ५०८विधाः प्रादेशिकपक्षिणः, २५९विधाः प्रादेशिकाः द्विचरिणः च सन्ति ।एतेषां सर्वेषाम् आश्रयस्थानम् अस्ति पश्चिमघट्टप्रदेशः । जगति नाशं अनुभवत्सु जीववैविध्येषु ३२५ वंशीयाः जीविनः पश्चिमघट्टे सन्ति ।
[[Fileचित्रम्:Shola Grasslands and forests in the Kudremukh National Park, Western Ghats, Karnataka.jpg|thumb|220px| कर्णाटकस्थः कुदुरेमुखारण्यप्रदेशः]]
पश्चिमघट्टः नैजार्थे पर्वतश्रेणी न । दक्षिणपीठभूमेः पश्चिमपरिधौ एते सन्ति । सामान्यतः १५० दशलक्षवर्षेभ्यः पूर्वम् गोण्डानामहाभूखण्डः छिद्रः अभूत् । तदा पश्चिमघट्टानाम् रचनाऽपि अभूत इति शङ्कते । घट्टप्रदेशेस्मिन् सामान्यतः दृश्यमानाः शिलास्तावत् बसाल्ट् । अस्य स्तरः भूमौ ३ कि. मी. पर्यन्तं व्याप्य तिष्ठति । एवम् अन्यः शिलाप्रकारास्तावत् ग्रानैट्, स्वोंडालैट्, लेप्टिनैट्, चार्नोकैट् इत्यादयः ।
 
उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, [[सह्याद्रिः]], [[बिळिगिरिः]] [[सर्वरायन् श्रेणी]] , एवं [[नीलगिरिः]] ।
बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कोडचाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
== नद्यः तथा जलपाताः ==
 
भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति [[जोगजलपातः]] ।भारतस्य अनेकासां सार्वकालिकीनां नदीनाम् पश्चिमघट्टः एव मूलस्त्रोतः । अत्र [[ताम्रपर्णी]], [[गोदावरी]], [[कृष्णा]] एवं [[कावेरी]] एताः प्रमुखनद्यः । एताः पूर्वाभिमुखं प्रवहन्ति । पश्चिमाभिमुखगामिन्यः नद्यः वेगेन प्रवहन्ति तासां व्याप्तिरपि अल्पा । [[माण्डवी]], [[जुवारी]] , [[शरावती]] [[नेत्रावती]] एतासु प्रमुखाः । वेगेन प्रवहन्ति इत्यतः एताः अनेकजलविद्युतयोजनानाम् आधारभूताः । विद्युत् योजनार्थं अनेके जलबन्धाः निर्मिताः सन्ति। । तेषु खोपोलि कोय्ना, लिङ्गनमक्की तथा परम्बिकुलं योजनाः प्रमुखाः ।
भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति [[जोगजलपातः]] ।अत्रत्यजलपातेषु [[उञ्चळ्ळीजलपातः]] (लुषिंगूटन्) कुञ्चिकल्, मेन्मुट्टी, एवं [[शिवनसमुद्रजलपातः]] प्रमुखाः प्रसिध्दाश्च ।
== वायुगुणः, वर्षाप्रमाणं च ==
पश्चिमघट्टे उष्णवलयस्य वायुगुणः भवति । अत्युन्नतप्रदेशेषु समशीतोष्णवायुगुणः दृश्यते । घट्टप्रदेशे सर्वसाधारण-उष्णमानः तावत् उत्तरे २४० सेलिसियस्, दक्षिणे २८० से. केषुचित् भागेषु शैत्यकाले रात्रेःतापमानः ०० सेल्सियस् भवति । जूनमासतः सप्टेम्बर्मासपर्यन्तम् अत्र सर्वसामान्या वर्षा तावत् ३००० तः ४००० मी. मी. [[कर्णाटकम्|कर्णाटकस्य]] केषुचित् भागेषु ९००० मी. मी. यावत् वर्षा भवति । [[कर्णाटकम्|कर्णाटकस्य]] [[आगुम्बे]]प्रदेशः भारतस्य अत्यधिकवर्षाधारायाः प्रदेशेषु अन्यतमः ।
== अरण्यवलयाः जीववैविध्यानि च ==
जीववैविध्यस्य स्त्रोतः इति ख्यातं पश्चिमघट्टस्य अरण्यं चतुर्विधवलयान् भजते।
• उत्तरपश्चिमघट्टस्य पत्रमोचन-अरण्यानि
• उत्तरपश्चिम घट्टानां वर्षारण्यानि
पङ्क्तिः २३:
पश्चिमघट्टानाम् उत्तरभागः सामान्यतः दक्षिणभागापेक्षया न्यूनां वर्षाम् आप्नोति
। अतः अधिकशुष्कतां अनुभवति । १००० मी. तः निम्नोन्नते स्थितानि पत्रविमोचन- अरण्यानि अतिपत्रवृक्षैः(Teak) पूर्णानि सन्ति । ततोप्यधिके उन्नतप्रदेशे नित्यहरिद्वर्णारण्येषु लारेसीकुटुम्बस्य वृक्षान् अधिकतया पश्यामः । पश्चिमघट्टस्य दक्षिणभागस्य प्रदेशाः अधिकतया कुल्लेनियावंशस्य वृक्षैःपूर्णाः सन्ति । तैः साकम् अतिपत्रवृक्षाः डिप्टेटोकार्प्स्, इत्यादयः वृक्षाः अपि वर्तन्ते ।
== अरण्यसंरक्षणम् ==
पश्चिमघट्टः सामान्यतः समृध्दकाननयुक्तः दुर्गमप्रदेशः आसीत् । ब्रिटिषजनानाम् आगमानन्तरं महता प्रमाणेन अरण्यानि छित्वा वाणिज्यकृषिम् आरब्धवन्तः । अनेन पश्चिमघट्टस्य बहुभागः कृषिभूमिरभवत् । पश्चिमघट्टः भारतस्य भूभागस्य ५% भागं केवलं यावत् आवृत्त्य स्थिताः सन्ति तथापि देशस्य २७% भागादपि अधिकप्रमाणेन उन्नतवर्गियसस्यानि अत्रैव सन्ति । जगति अन्यत्र कुत्रापि द्रष्टुं दुर्लभानि ८४ जातेः द्विचरः अत्र सन्ति । १६ प्रकारकाः पक्षिणः, ७ विधाः सस्तनिनः, १६०० पुष्पसस्यानि अत्र सन्ति । अस्मिन् प्रदेशे १३ राष्ट्रिय-उद्यानानि , २ संरक्षितजीवारण्यकवलयौ च घोषितानि सन्ति । तेन साकम् अनेकानि रक्षितारण्यानि , वन्यजीविधामानि अपि सर्वकारेण उद्घुष्टानि सन्ति । एतानि तत्तत् राज्यस्य अरण्यविभागस्य अधीने कार्यं कुर्वन्ति । तादृशेषु नीलगिरिसंरक्षितजीववलयः अन्यतमः । अस्मिन् ५५०० च. कि. मी. विस्तीर्णवति वलये, [[कर्णाटकम्|कर्णाटकस्य]] [[नागरहोळेराष्ट्रिय-उद्यानम्]] [[बण्डिपुर- राष्ट्रिय-उद्यानम्]], एवं नुगुप्रदेशस्य अरण्यं, [[केरळम्|केरळराज्यस्य]] वयनाड्, तथा [[तमिळ्नाडु]]राज्यस्य [[मुदुमलैराष्ट्रिय-उद्यानम्]] च अन्तर्भवति । एष जीवगोलः पश्चिमघट्टस्य अतिविस्तृतः एकैकः संरक्षितप्रदेशः । केरळस्य [[सैलेण्ट् व्याली राष्ट्रिय- उद्यानम्]] भारते मानवाक्रमणरहितम् अन्तिमम् नित्यहरिद्वर्णभरितम् उष्णवलयस्य काननम् ।
२००६ तमे वर्षे पश्चिमघट्टं विश्वपरम्परायाः स्मारकस्थानरूपेण घोषणार्थम् आवेदनं कृतम् अस्ति । अतः एषः प्रदेशः सप्तधा विभक्तः अस्ति ।
पङ्क्तिः ३९:
! उच्चाङ्कः !! नाम !! औन्नत्यम्(मी) !! स्थाननिर्देशः
|-
| ०१ || आनमुडी || २६९५ || एरविकुलम् ,राष्ट्रिय-उद्यानम्, [[ केरळम्]]
|-
| ०२ || मीसपुळिमल || २६४० || [[मुन्नार्]], [[केरळम्]]
पङ्क्तिः ५५:
| ०८ || [[कुद्रेमुखम्]] || १८९४ || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०९ || [[अगस्त्यमलै]] || १८६८ || [[नेय्यर् वैल्ड् लैफ़् स्याञ्चुचुरी]], [[केरळम्]]
|-
| १० || [[बिळिगिरिरङ्गनबेट्ट]]|| १८०० || [[चामराजनगरमण्डलम्]],[[कर्णाटकम्]]
पङ्क्तिः ८०:
|}
 
== प्राणिसङ्कुलः ==
पश्चिमघट्टः सहस्रशः प्राणिवंशानां मूलस्थानम् अस्ति । प्रपञ्चे विनाशस्य अञ्चले विद्यमानेषु ३२४ वंशीयाः प्राणिसङ्कुलाः अत्र विद्यन्ते । अत्रत्याः अनेके प्राणिसङ्कुलाः विशालव्याप्तिमन्तः सन्ति । आहत्य १३९ विधाः सस्तनिनः पश्चिमघट्टे सन्ति । तेषु अवसानस्य अञ्चले स्थितः मलबारमहानक्षत्रचिह्नवान् अरण्यमार्जालः, सिङ्गळिकनामकः कृष्णमुखी वानरः च सन्ति । सिंगळिकाः अद्य सैलेन्ट् व्यालीप्रदेशे तथा कुदुरेमुख-राष्ट्रिय-उद्याने एव सन्ति । नीलगिरिजीववलयः एषियाखण्डस्य गजानां बृहत् स्थानम्। प्राजेक्ट् एलिफण्ट् एवं प्राजेक्ट् टैगर् (व्याघ्र-संरक्षण-योजना) योजनायाः केन्द्रम् । कर्णाटकस्य घट्टाः ६००० गजानां तथा देशे विद्यमानानां १०% व्याघ्राणाम् आवासस्थानमस्ति । सुन्दरबनम् विहाय भारते अत्यधिकसंख्याकाः व्याघ्राः [[कर्णाटकम्|कर्णाटके]], [[केरळम्|केरळे]] [[तमिळ्नाडु]]राज्ये च सन्ति । [[बण्डिपुरम्]], एवं [[नागरहोळे]]-उद्याने अरण्यमहिषीनां बृहत् समूहं द्रष्टुं शक्नुमः । कूर्गप्रदेशस्य कानने नीलगिरिलङ्गुरजातेः कपयः गणनीयसंख्यया दृश्यन्ते। भद्रा-अभयारण्ये इण्डियन् मुण्टजाक्जातीयाः वानराः दृश्यन्ते । एतदतिरिच्य सम्बारमृगाः, भल्लूकाः, शार्दूलाः, अरण्यसूकरादयः केरळे तथा कर्णाटकस्य पश्चिमघट्टे सामान्यतया दृश्यन्ते। कर्णाटकस्य दाण्डेल्यां तथा अणशी-राष्ट्रिय-उद्याने कृष्णव्याघ्रः तथा ‘ग्रेट् इण्डियन् हार्नबिल्’ जातेः पक्षिणः निवसन्ति । भीमगडस्य वन्यजीविधाम्नि अपायस्य अञ्चले स्थितः ‘राटन्स् फ्रीटैल्ड् व्याट्’ इति वर्गस्य जतुकाः सन्ति । युरोपेल्टिडे कुटुम्बस्य उरगाः पश्चिम घट्टे एव द्रश्यन्ते ।
 
<gallery>
पङ्क्तिः ९४:
</gallery>
 
[[वर्गः: भारतस्य भूवलयाः]]
 
[[bg:Западни Гхати]]
पङ्क्तिः ११२:
[[it:Ghati occidentali]]
[[ja:西ガーツ山脈]]
[[ka:დასავლეთი გატები]]
[[kk:Батыс Гаттар]]
[[kn:ಪಶ್ಚಿಮ ಘಟ್ಟಗಳು]]
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्