"कार्त्तिकपूर्णिमा" इत्यस्य संस्करणे भेदः

कार्तिकपूर्णिमा इति पूर्णिमायाः दिनम् अथवा क... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु)No edit summary
पङ्क्तिः ७:
पुष्करयात्रा अथवा पुष्करमेला [[राजास्थानम्|राजास्थाने]] प्रबोधिनी-एकादशीतः कार्तिक- पूर्णिमापर्यन्तम् अनुवर्तते । राजास्थाने कार्तिकपूर्णिमा अतीव प्रामुख्यम् आवहति । एषा मेला ब्रह्मदेवस्य स्मरणार्थं प्रचलति । तस्य देवालयः [[पुष्करम्|पुष्करनगरे]] अस्ति । कार्तिकपूर्णिमा -दिने पुष्करसरोवरे पुण्यस्नानं करोति चेत् मोक्षः प्राप्यते इति विश्वसिन्ति । अस्मिन् दिने पुष्करत्रयम् परितः प्रदक्षिणां करोति चेत् बहु पुण्यप्रदम् इत्यपि विश्वसिन्ति । अत्र संन्यासिनः साधवः च आगच्छन्ति अपि च एकादशीतः पूर्णिमापर्यन्तं गुहायां वसन्ति । पुष्करयात्रानिमित्तं सामान्यतः २,००,०००जनाः आगच्छन्ति । २५,०००उष्ट्राः अपि उपस्थिताः भवन्ति । पुष्करमेला [[एशिया]]खण्डे एव सुप्रसिद्धा उष्ट्राणां महामेलायाः स्थानम् ।
कार्तिकपूर्णिमादिने अस्मिन् पुण्यक्षेत्रे विद्यामाने सरोवरे अथवा पवित्रानद्यां पुण्यस्नानं पवित्रकरम् इति विश्वासः अस्ति । एतत् पुण्यस्नानं “कार्तिकस्नानम्” इति प्रसिद्धम् अस्ति । पुष्करे नो चेत् [[गङ्गा]]नद्यां तत्रापि विशेषतया [[वाराणसी|वारणास्यां]] पवित्रस्नानं करोति चेत् बहु श्रेयस्करम् इति परिगणयन्ति । वाराणास्याः गङगानद्यां स्नानं कर्तुं कार्तिकपूर्णिमादिनम् अत्यन्तं जनप्रियमस्ति ।
देवालये देवाताभ्यः अन्नं समर्पनस्य कार्यक्रमः अन्नकूटः प्रचलति ।पूर्णिमा दिनं अश्विनतः व्रतं स्वीकृत्य कार्तिक पूर्णिमा दिने समाप्तिं कुर्वन्ति । अस्मिन् दिने विष्णुं अपि पूजयन्ति । यत्किमपि प्राकारस्य दौर्जन्यं (हिंसा)अस्मिन् दिने निषिद्दमस्ति। क्षौर करणं ,केशकर्तनं ,वृक्षाणां कर्तनं ,फलं तथा पुष्पानां उत्पाटनं ,फलोदयस्य कर्तनंअपिच स्त्रि पुरुषयो मेलनं ,च अत्र अन्तर्भवति । दान कार्याणि तत्रापि गोदान ,ब्राह्मनेभ्यः अन्नदानं ,उपवसादि धार्मिक कार्यक्रमाण् कर्तुं सूचयिष्यन्ति ।
शिवाराधनानिमित्तं आरक्षित महाशिवरात्रि अनन्तरं ऎकमात्र पर्वः अस्ति त्रिपुर पूर्णिमा । त्रिपुरासुरं मारितस्य स्मरणार्थं शिवस्य प्रतिमां शोभायात्रां क्रियते । दक्षिण भरातस्य देवालयानां संकीर्णान् आरत्रौ प्रज्वालयन्ति। देवालयेषु दीपमालाः दीपानां गोपुरं प्रज्वालयन्ति ।जनाः मरणानन्तरं नरकतःउत्तार भवितुं ३६० अथवा७२० दीपान् देवालये ज्वालयन्ति। ७२०दीपस्य वर्तिकाः हिन्दूपञ्चाङ्गस्य ३६० दिनानां रात्रीणां च प्रतीकमस्ति । वारणास्यां नदीतटस्य स्नान- घट्टाः सहस्रदीपैः कान्तिं प्राप्नुवन्ति ।जनाः पुरोहितेभ्यः दीपान् दानरूपेण यच्छन्ति । दीपान् गृहेषु शिवदेवालयेषु च आरात्रौ प्रज्ज्वाल्य स्थापयन्ति । एतत् दिनं ‘‘कार्तिक दीपरत्न” इति कार्तिकमासस्य दीपानां रत्नाभरणम् इति वक्तुं शक्यते । दीपाः लघु नौकया प्लाव्यन्ते । तुलस्याः, अञ्जूरफलवृक्षस्य आमलकवृक्षस्य च अधोभागे दीपं स्थापयन्ति । जलचराः, कृमिकीटादयाः ,पक्षिणः वृक्षस्य अधोभागे स्थापितान् दीपान् दृष्ट्वा मोक्षं प्राप्नुवन्ति इति विश्वासः ।
==जैनधर्मे==
"https://sa.wikipedia.org/wiki/कार्त्तिकपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्