"ताजमहल" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३१:
[[File:Taj Mahal reflection on Yamuna river, Agra.jpg|thumb|यमुना नद्यां प्रतिफलनम्]]
एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।
 
[[File:TajMahalbyAmalMongia.jpg|thumb|left]]
मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।
 
ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति ।
ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति ।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
==अन्यानि चित्राणि==
<gallery perrow=4 widths=160px heights=120px>
[[File:TajMahalbyAmalMongia.jpg|thumb|left]]
File:Taj Mahal in March 2004.jpg|२००४ मार्च् ताज् महल्
File:Taj Mahal reflection.jpg|प्रतिफलनम्
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्