"एड्वर्ड् जेन्नर्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.3) (Robot: Adding xmf:ედუარდ ჯენერი; अंगराग परिवर्तन
पङ्क्तिः ३२:
 
 
तदानीन्तने काले जनानां “शीतलारोगः जीवने एकवारम् एव आगच्छति । पुनः पुनः न आगच्छति” इति कश्चन विश्वासः आसीत् । तदर्थम् एव केचन शीतलारोगेण पीडितस्य [[शरीरम्|शरीरे]] विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य स्वहस्ते लेपयन्ति स्म । तेन ते अपि शीतलारोगेण पीडिताः भवन्ति स्म । तथा करणेन सः रोगः सौम्यः भवति इति न आसीत् । तस्मात् तथा करणम् अपि भयावहम् एव आसीत् । [[धेनुः|धेनूनाम्]] अपि कश्चन शीतलारोगः भवति स्म । तथैव [[अश्वः|अश्वानाम्]] अपि । तेषां प्राणिनां रोगः गोपालकेषु, अश्वपालकेषु च आक्रान्तः भवति स्म । तथापि तेन कोऽपि मरणं न प्राप्नोति स्म । प्राणिनां शीतलारोगः मानवानां शीतलारोगः इव भयङ्करः न भवति स्म । सः तु सौम्यः रोगः आसीत् । प्राणिनां रोगः यदि एकवारं मनुष्येषु आक्रमति तर्हि पुनः सः [[मनुष्यः]] मानवानां शीतलारोगेण पीडितः न भवति स्म । एतम् एव विषयं मनसि निधाय अयम् एड्वर्ड् जेन्नर् प्रयोगान् आरब्धवान् ।
 
 
अयम् एड्वर्ड् जेन्नर् १७९६ तमे वर्षे शीतलारोगेण पीडितायाः धेनोः शरीरे विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य अष्टवर्षीयस्य कस्यचित् बालस्य हस्ते लेपितवान् । सः बालकः प्राणिनां शीतलारोगेण पीडितः अभवत् । कतिपय दिनानाम् अनन्तरं च सः बालकः स्वस्थः अपि अभवत् । मासद्वयस्य अनन्तरं पुनः तस्य बालकस्य हस्ते मनुष्याणां शीतलारोगस्य द्रवं लेपितवान् । किन्तु बालकः मनुष्याणां शीतलारोगेण पीडितः न अभवत् । अस्य एड्वर्ड् जेन्नरस्य प्रयोगः यशस्वी अभवत् । ततः अयम् एड्वर्ड् जेन्नर् प्राणिनां शीतलारोगं मनुष्येषु आक्राम्य मनुष्याणां शीतलारोगात् विमुक्तिं कारयितुम् आरब्धवान् । सः एव क्रमः “व्याक्सिनेषन्” इति उक्तम् । यदा अयम् एड्वर्ड् जेन्नर् स्वप्रयोगं संशोधनं च प्राकटयत् तदा सर्वत्र महान् विरोधः आरब्धः । बहवः “अहम् एव प्रथमम् एतत् संशोधितवान्” इति उक्तवन्तः । किन्तु एड्वर्ड् जेन्नर् सर्वम् अपि विरोधं समर्थतया सम्मुखीकृतवान् । ७५ पुटानां किञ्चित् पुस्तकम् अपि लिखित्वा प्रकटितवान् । अनेन एड्वर्ड् जेन्नरेण संशोधितः अयं रोगापहारस्य क्रमः [[यूरोप्]]-देशे सर्वत्र अत्यन्तं वेगेन प्रसृतः । तस्य संशोधनस्य अनुवर्तनार्थं २०,००० पौण्ड् यावत् धनस्य साहाय्यम् अपि प्राप्तम् । विश्वस्य बहुभ्यः भागेभ्यः प्रशंसा उपायनानि च आगतानि । ब्रिटिश्–संसत् अस्मै एड्वर्ड् जेन्नराय '''“सर्”''' इति पदवीम् अपि प्रायच्छत् । [[रष्या]]देशस्य चर्कवर्ती जार् अस्मै एड्वर्ड् जेन्नराय स्वर्णस्य [[अङ्गुलीयकम्]] अपि उपायनरूपेण प्रेषितवान् । [[अमेरिका]]–संयुक्त–संस्थानतः अपि कश्चन गणः आगत्य अस्य सम्माननम् अकरोत् । एतावती कीर्तिः सम्पादिता चेदपि सः एड्वर्ड् जेन्नर् अहङ्कारं न प्राप्तवान् । सः जीवनस्य अन्तपर्यन्तम् अपि ग्रामे एव वैद्यरूपेण अतिष्ठत् । १८२३ तमे वर्षे इहलोकम् अत्यजत् ।
 
 
[[वर्गः:वैज्ञानिकाः]]
Line १११ ⟶ ११०:
[[vi:Edward Jenner]]
[[war:Edward Jenner]]
[[xmf:ედუარდ ჯენერი]]
[[zh:愛德華·詹納]]
"https://sa.wikipedia.org/wiki/एड्वर्ड्_जेन्नर्" इत्यस्माद् प्रतिप्राप्तम्