"मधुरै" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==तिरुमलैनायकस्य राजगृहम् –शिल्पकलास्थानम् ==
[[चित्रम्:Thirumalai Nayakkar Palace, Madurai.jpg|thumb|300px|तिरुमलैनायकस्य राजगृहम्]]
[[तमिळ्नाडु]]राज्ये स्थितम् एतत् राजगृहम् अद्भुतशिल्पकलापूर्णं च अस्ति । श्री तिरुमलैनायकः स्वप्रशासनकाले क्रिस्ताब्दे १६३६ तमे वर्षे अस्य राजगृहस्य निर्माणं कारितवान् । इटालियन् शैल्यां निर्मितम् एतत् राजगृहं मधुरैमीनाक्षीमन्दिरस्य समीपे अस्ति ।
अत्र राजगृहे स्वर्गविलासः, रङ्गविलासः इति भागद्वयम् अस्ति । परितः प्राङ्गणं सरः, पाटलपुष्पवनं, सेवकानां वसतिगृहाणि आयुधागाराः आसन् । अधुना तु स्वर्गविलास- भवनमेकमेव अस्ति । अत्र भवने द्वादशशिल्पस्तम्भाः भव्याः सन्ति । तञ्जावूरुप्रदेशेऽपि एतत् सदृशम् एकं राजगृहम् अस्ति । मध्ये गोलाकारतया निर्मितः अट्टः सारसानिकशैल्या अस्ति ।
"https://sa.wikipedia.org/wiki/मधुरै" इत्यस्माद् प्रतिप्राप्तम्