"धर्मपुरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding vi:Dharmapuri (huyện)
पङ्क्तिः १२०:
तगडुरुप्रदेशस्य (अद्यतनधर्मपुरी) विज्ञातः प्राचीनतमः प्रशासकः सङ्गमकालस्य आदियमान् नेडुमान् अञ्जिः । तस्य आश्रये एव प्रसिद्धा कवयित्री [[अव्वैयार्]] आसीत् । अग्रे अस्य प्रदेशस्य उल्लेखः क्रिस्तीये अष्टमशतके श्रूयते, यदा [[सेलं मण्डलम्|सेलं मण्डलस्य]] उत्तरभागाः [[पल्लवाः|पल्लवप्रशासने]] आसन् । ततः गङ्गपल्लवाः ’सेलं ’मण्डलस्य पश्चिमभागान् अपि जितवन्तः । अष्टमशतकस्य अन्ते पश्चिमगङ्गाः बारामहलस्य अपि प्रशासकाः आसन् इति श्रूयते ।
 
नवमशतकस्य आरम्भे [[राष्ट्रकूटाः]] बलं प्राप्य अग्रिमयोः द्वयोः शतमानयोः अस्मिन् मण्डले प्रभावयुताः आसन् । ततः सेलम् मण्डलस्य पूर्णः भागः [[चोळाः|चोळैः]] जितः । तदा गङ्गवाडी चोळप्रशासनस्य भागः भूत्वा अडिगमान् तगडूरस्य अधीनतया स्थापितम् । द्वादशशतके चोळानाम् अवनतिः अभवत् । [[होय्सळावंशः|होय्सळाः]] प्रबलाः भूत्वा चोळान् गङ्गवाडीतः प्रभ्रष्टान् कृतवन्तः । तदा यद्यपि बारामहल् तथा तलघाट् प्रदेशौ चोळप्रशासने एव शिष्टौ, तथापि अडिगमान् प्रदेशः प्रायः स्वतन्त्रः अभवत् । नाममात्रेण तत्र चोळानां प्रभावः आसीत् ।
 
चतुर्दशे शतके [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] उदयः अभवत् । १३६५-६६ समये प्रथमः [[बुक्कराजः]] [[मधुरै]]प्रदेशस्य देहलीसुल्तानान् पराजितवान् । ततः सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनः अभवत् । [[ताळीकोटे]]टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।
"https://sa.wikipedia.org/wiki/धर्मपुरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्