"धर्मपुरीमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५८:
 
===आदियमान्कोट्टै===
इयं तगडूरुप्रदेशस्य प्राचीनप्रशासकानां आदियमान्-वंशस्थानां राजधानी आसीत् । सेलम्-धर्मपुरीमार्गे धर्मपुर्याः ७ किलोमीटर् दूरे अस्ति इदम् । अण्डाकारस्य दुर्गस्य अवशेषाः अद्यापि द्रष्टुं शक्याः । अत्रत्येषु देवालयेषु चेन्नराय पेरुमाळ् देवालयः बृहत्तमः । कृष्णदेवरायेन, [[होय्सळवंशः|होय्सळराजैः]] वा निर्मितः अयं देवालयः इति श्रूयते । इदं संरक्षितं स्मारकम् । देवालयस्य अन्तच्छदे महाभारतस्य, विश्वरूपदर्शनस्य, रामायणस्य च चित्राणि चित्रितानि सन्ति । सर्वाणि चित्राणि त्रयोदशशतकस्य सन्ति ।
 
===सुब्रह्मण्यशिवस्मारकम्===
"https://sa.wikipedia.org/wiki/धर्मपुरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्