"होय्सळवंशः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः ९८:
==संस्कृतिः==
एकादशशतकस्य आदिभागे [[चोळवंशः|चोळराजैः]] जैनमतावलम्बिनः पश्चिमगङ्गाः पराभवमापन्नाः । द्वादशशतके वीरशैवमतेषु वैष्णवमतेषु च अनुयायिनां सङ्ख्या वर्धते स्म । अनेन जनेषु जैनमतासक्तिः कुण्ठिता अभवत् । कम्बदहळ्ळि तथा [[श्रवणबेळगोळः]] च होय्सळकाले उल्लेखार्हाणि जैनकेन्द्राणि । अष्टमशातके [[आदिशङ्कराचार्यः|शङ्करभगवत्पादानां]] [[अद्वैतम्|अद्वैत]]मतप्रसारारेण दक्षिणभारते बौद्धमतस्य अवनतिः आरब्धा । होय्सळानां काले बळ्ळिगावि डम्बळ च द्वे एव बौद्धकेन्द्रे आस्ताम् । विष्णुवर्धनस्य पत्नी शान्तलादेवी जैनमतीया असीत् विष्णुवर्धनस्य कप्पेचेन्निगरायस्य देवालयस्य निर्माणं परमतसहिष्णुभावस्य दृष्टान्तः । राजा विष्णुवर्धनः [[बसवेश्वरः|बसवेश्वरेण]] (बसवण्णः), [[रामानुजाचार्यः|रामानुजाचार्येण]], [[मध्वाचार्यः|मध्वाचार्येण]] च प्रेरितः त्रिमतस्य संवर्धनार्थम् अवकाशं प्रकल्पितवान् । वीरशैवमतस्य सम्भवः चर्चाविषयः चेदपि क्रि.श. द्वादशसतके [[बसवेश्वरः|बसवेश्वरस्य]] (बसवण्णस्य) आगमनेन एतन्मतं प्रवर्धितम् । तथापि [[बसवेश्वरः]] वीरशैवशारणाः जात्यतीतसमाजं प्रतिपादितवन्तः । स्वकर्मे निधनं श्रेयः इति गीतोक्तिं कार्यमेव कैलासः इति बोधयन् [[बसवेश्वरः]] सरलया भाषया जीवनमौल्यानि ज्ञापितवान् । [[कन्नडभाषा]]साहित्ये तानि वचनानि इति प्रसिद्धानि । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यस्य]] सिद्धान्तानि अननुमतः [[मध्वाचार्यः]] जीवात्मा पर्मात्मा च पृथगेव इति द्वैतसिद्धान्तं प्रतिपादितवान् । कालक्रमेण तस्य अनुयायिनां संङ्ख्या संवर्धिता । मध्वाचर्यः [[उडुपि]]पत्तने अष्टमठान् प्रतिष्ठापितवान् । श्रीरङ्गस्य श्रीवैष्णवमठस्य गुरुः [[रामानुजाचार्यः]] भक्तिमार्गं बोधितवान् । [[आदिशङ्कराचार्यः|आदिशङ्कराचर्यस्य]] अद्वैतसिद्धान्तमवलम्ब्य श्रीभाष्यम् इति भाष्यग्रन्थम् अरचयत् । एते धर्मसिद्धान्ताः तदानीन्तनकालस्य दक्षिणभारतस्य संस्कृतेः, साहित्यस्य, काव्यस्य , शिल्पकलायाः च उपरि प्रभावम् अकरोत् । एतेषां तत्त्वज्ञानिनाम् उपदेशान् अनुसृत्य अग्रिमशतकेषु महत्त्वपूर्णं साहित्यानां काव्यानां च निर्माणम् अभवत् । [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] साळ्व, तुळुव, अरवीडु च राजवंशाः वैष्णवाः आसन् । विजयनगरस्य विठ्ठलपुरस्य कस्मिंश्चित् वैष्णवदेवालये [[रामानुजाचार्यस्य|रामनुजाचर्यः]] प्रतिमा अस्ति । अग्रे [[मैसूरुसंस्थानम्|मैसूरुसंस्थाने]] राजाश्रयं प्राप्तवन्तः विद्वांसः [[
===समृद्धसमाजः===
|