"रामेश्वरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं [[तमिळुनाडुतमिळ्नाडु|तमिळुनाडुराज्यस्य]] [[रामनाडुमण्डलम्रामनाथपुरमण्डलम्|रामनाडुमण्डलेरामनाथपुरमण्डले]] अस्ति । रामनाडुतःरामनाथपुरं रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । [[चतुर्धाम्|चतुर्धामेषु]] एतत् दक्षिणधाम इति उच्यते । [[पुराणम्|पुराणेषु]] एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "[[काशी]]-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।
 
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । [[श्रीलङ्का|श्रीलङ्कायाः]] राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमानेषु प्रदक्षिणपथेषु प्रत्येकः अपि प्रदक्षिणपथः १,०००पादमितं दीर्घः, ६०० पादमितं विशालः, १५ पादमितम् उन्नतः च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः [[फर्ग्युसन्]] "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः [[भारतम्|भारते]] एव अत्यन्तं बृहत् मन्दिरम् ।
पङ्क्तिः ५:
[[चित्रम्:Ramanathar-temple.jpg|thumb|300px|left|तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्]]
 
रामेश्वरमन्दिरस्य पुरतः स्वर्णस्तम्भः अस्ति । तत्समिपे रामेण संस्थापितः १३ पादमितोन्नतः, ८ पादमितं दीर्घः, ९ पादमितं विशालः धवलवर्णस्य महानन्दिविग्रहः अस्ति । तस्य विग्रहस्य वामभागे हनुमतः विग्रहः, दक्षिणभागे "शिवतीर्थ"नामिका पुष्करणी च अस्ति । अस्य मन्दिरस्य परिसरे सर्वतीर्थाणि अपि सन्ति इति विश्वासः अस्माकम् । रामेश्वरमन्दिरस्य प्रदक्षिणपथस्य उत्तरभागे [[हनुमान्|हनुमता]] [[कैलासः|कैलासतः]] आनीतं शिवलिङ्गम् अस्ति । रामेश्वरलिङ्गं शेषस्य महाफणाकारकम् अस्ति । पार्श्वयोः [[सीता]][[लक्षमणःलक्ष्मणः|लक्ष्मणयोः]] स्वर्णविग्रहौ स्तः । [[अगस्त्यः|अगस्त्येन]] पूजितम् अगस्त्येश्वरलिङ्गम् अपि अस्ति अत्र । [[पार्वती|पर्वत्याः]], [[षण्मुखः|षण्मुखस्य]], [[गणेशः|गणेशस्य]], नन्दिकेश्वरस्य, [[विशालाक्षी|विशालाक्ष्याः]] एवं बहूनां देवानां मन्दिराणि सन्ति अत्र ।
 
अयं द्वीपः [[कृष्णः|कृष्णस्य]] शङ्खस्य "पाञ्चजन्य"स्य आकारकः अस्ति । अस्मिन् एव द्वीपे [[रामः]] अखण्डं दिनत्रयम् आदिजगन्नाथम् उद्दिश्य तपः आचर्य दिव्यचापं प्राप्तवान् । एतत्स्थानं "दर्भशयनम्" इति उच्यते । रामेश्वरतः सार्धैकमैल् दूरे पर्वतस्य उपरि सुन्दरं किञ्चित् मन्दिरम् अस्ति, तत्र रामस्य पादचिह्नम् अस्ति । रामेश्वरस्य दक्षिणभागे "धनुष्कोटि"नामकं स्थानम् अस्ति । रामः तस्मिन् स्थाने एव धनुषः अग्रभागेण लङ्कां प्रति निर्मितं सेतुम् अनाशयत् इति । [[रावणः|रावण]]संहारानन्तरं [[विभीषणः]] लङ्कायाः राजा अभवत् । [[वानरः|वानरैः]] निर्मितसेतुद्वारा अन्ये लङ्कायाः उपरि आक्रमणं कुर्युः इति विभीषणस्य भयम् अभवत् । लङ्काम् आक्रमणेभ्यः रक्षितुं, मित्रस्य विभीषणस्य भयं दूरीकर्तुं च रामः तं सेतुम् एव अनाशयत् इति । तस्मिन् स्थाने एव कोदण्डराममन्दिरम् अस्ति । १९६४तमे वर्षे सञ्जातात् झञ्झावातकारणात् एतदेकं मन्दिरं विहाय अन्यत्सर्वम् अपि नष्टम् अभवत् ।
पङ्क्तिः १६:
 
रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
भारतस्य दक्षिणान्ते प्रदेशे स्थितम् एतत् दक्षिणकाशी इति च प्रसिद्धम् अस्ति । अत्र रामनाथस्वामी देवालयः अपूर्वः विशालः च अस्ति । सागरतीरे स्थितः प्राचीनदेवालयः एषः पुराणकालादपि प्रसिध्दः अस्ति । श्री[[रामः]] एव अत्र शिवलिङ्गं प्रतिष्ठापितवान् इति [[रामायणम्|रामायणे]] अस्ति । अतः एव रामेश्वरम् इति नाम आगतम् ।
अत्र सागरे समुद्रस्नानं पुण्यकरम् आनन्दाय च भवति । रामेश्वरं प्रकृतिसौन्दर्य युक्तं पवित्रक्षेत्रं च अस्ति ।
==मार्गः==
मधुरैविमाननिस्थानतः १७३ कि.मी.
भूमार्ग –दक्षिणभारतस्य सर्वनगरेभ्यः वाहनसम्पर्कः अस्ति ।
धूमशकटमार्गः -मण्डपम् पर्यन्तम् धूमशकटयानसौलभ्यमस्ति ।
 
 
 
{{द्वादश ज्योतिर्लिङ्गानि}}
"https://sa.wikipedia.org/wiki/रामेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्