"रामेश्वरम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं [[तमिळ्नाडु|तमिळुनाडुराज्यस्य]] [[रामनाथपुरमण्डलम्|रामनाथपुरमण्डले]] अस्ति । रामनाथपुरंरामनाथपुरतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । [[चतुर्धाम्|चतुर्धामेषु]] एतत् दक्षिणधाम इति उच्यते । [[पुराणम्|पुराणेषु]] एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "[[काशी]]-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।
 
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । [[श्रीलङ्का|श्रीलङ्कायाः]] राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमानेषु प्रदक्षिणपथेषु प्रत्येकः अपि प्रदक्षिणपथः १,०००पादमितं दीर्घः, ६०० पादमितं विशालः, १५ पादमितम् उन्नतः च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः [[फर्ग्युसन्]] "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः [[भारतम्|भारते]] एव अत्यन्तं बृहत् मन्दिरम् ।
 
सीतायाः आनयनाय प्रस्थितः रामः लङ्कां प्रति गमनात् पूर्वं रामेश्वरे शिवलिङ्गं प्रतिष्ठाप्य पूजितवान् । अतः एव एतत् क्षेत्रं "रामेश्वरम्" इति निर्दिष्टम् अभवत् । रामः धनुषा भूमिं विदार्य जलाशयं निर्मितवान् । तस्य एव जलाशयस्य जलेन शिवस्य अभिषेकं कृतवान् । सः एव जलाशयः "कोटितीर्थ"नामकः । गन्धमादनक्षेत्रं सेतुबन्धरामेश्वक्षेत्रं जातं यत् तस्य पृष्ठभूमिकायां विद्यमाना कथा अपि रसपूर्णा अस्ति - रामः रावणेन अपहृतां सीतां प्रत्यानेतुं सुग्रीवस्य सैन्येन सह प्रस्थितः दक्षिणदिशि आगच्छन् गन्धमादनप्रदेशं प्राप्तवान् । लङ्कां प्रति गमनाय शतयोजनानां सागरस्य तरणं करणीयम् । तदर्थं दिनत्रयं यावत् उपवासम् आचर्य साहाय्यं करोतु इति समुद्रराजं प्रार्थितवान् रामः । तथापि समुद्रराजः नागतः एव । कुपितः रामः अस्त्रेण समुद्रं निर्जलं कर्तुम् उद्युक्तः । भीतः समुद्रराजः प्रत्यक्षः जातः । सः रामं "प्रकृतिनियमानां विरुद्धं भवतः कृते मार्गं कल्पयितुं न अर्हामि अहम् । कृपया तथा करणे मां मा प्रेरयतु । सेतुनिर्माणं कृत्वा सागरतरणं क्रियताम्" इति प्रार्थितवान् । तदनुसारं रामः प्रख्यातस्य वास्तुशिल्पिनः [[विश्वकर्मा|विश्वकर्मणः]] पुत्रस्य [[नलः|नलस्य]] साहाय्येन सेतुनिर्मणम् अकारयत् । दशयोजनविशालः शतयोजनदीर्घः सः दोलासेतुः वृक्षकाण्डैः शिलाभिः सिकताभिः च निर्मितः । तस्य सेतोः अवशेषाः अभिज्ञाताः [[अमेरिका|अमेरिकादेशस्य]] उपग्रहेण ।
[[File:Adams Bridge aerial.jpg|thumb|300px|रामेण लङ्कां प्रति गमनाय निर्मिता इति कथ्यमाना रामसेतुः]]
 
रामः रावणस्य संहारानन्तरं पुनः गन्धमादनक्षेत्रम् आगतः । तत्र सीता अग्निपरीक्षाद्वारा पावित्र्यं प्राकटयत् । तथापि रामस्य मुखे काचित् चिन्ता दृष्टा अगस्त्यादिमुनिभिः । यद्यपि रामः रावणेन सह जाते युद्धे जयं प्राप्तवान् तथापि रावणसंहारेण ब्रह्महत्यादोषपूर्णः जातः आसीत् । तदेव दुःखं रामं बाधते स्म । मुनयः रामस्य दुःखम् अवगतवन्तः । तदा ते रामं सागरतीरे शिवस्य ज्योतिर्लिङ्गं संस्थाप्य पूजयितुं सूचितवन्तः । रामः कैलासतः [[शिवः|शिवस्य]] दिव्यलिङ्गम् आनेतुं हनुमन्तम् असूचयत् । हनुमान् कैलासं प्राप्तवान् चेदपि तत्र शिवस्य दर्शनं न प्राप्तवान् । शिवस्य दर्शनं प्राप्य दिव्यलिङ्गस्य आनयनसमये कालः अतीतः । रामस्य सङ्कल्पपरिवर्तनं तु न भवेदेव । तदा सीता मनोबलेन एव रामस्य पुरतः सिकतानिर्मितं शिवलिङ्गम् अकरोत् । मुनीनाम् आदेशानुगुणं रामः सिकतालिङ्गम् एव प्रतिष्ठाप्य पूजितवान् । ज्येष्ठशुद्धदशम्यां बुधवासरे हस्तानक्षत्रे स्थिते चन्द्रे, वृषभराशौ स्थिते सूर्ये च शिवलिङ्गस्य प्रतिष्ठापनं कृतम् । तदेव रामेश्वरलिङ्गम् । स्वस्य प्रयत्नः विफलः जातः इति हनुमान् कुपितः । वृष्टि-वायुबाधां सोढुम् अशक्तेन तेन सिकतानिर्मितेन शिवलिङ्गेन किं प्रयोजनम् ? कैलासतः आनीतं स्फटिकलिङ्गं किं करणीयम् ? इति कोपेन रामम् अपृच्छत् हनुमान् । तदा रामः "तर्हि एतत् सिकतानिर्मितं शिवलिङ्गं ततः निष्कास्य स्फटिकलिङ्गं भवान् एव प्रतिष्ठापयतु" इति [[हनुमान्|हनुमन्तम्]] असूचयत् । महता प्रयत्नेन अपि सिकतानिर्मितं शिवलिङ्गं कम्पयितुम् अपि न शक्तः हनुमान् । तस्मात् दुःखितं हनुमन्तं समाश्वसन् रामः सिकतालिङ्गस्य पार्श्वे एव स्फटिकलिङ्गम् अपि प्रतिष्ठापितवान् । "हनुमदीश्वरः" इति प्रसिद्धस्य तस्य लिङ्गस्य दर्शनानन्तरम् एव रामेश्वरस्य दर्शनं करणीयम् । तदा एव यात्रा फलति इति हनुमते आश्वासनम् अपि दत्तवान् रामः । तदा एव तत्र प्रत्यक्षः सन् शिवः रामं "भवता स्थापितस्य रमेश्वरलिङ्गस्य दर्शनेन भक्ताः मुक्तिं प्राप्नुवन्ति" इति अवदत् ।
 
५,४५७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/200584" इत्यस्माद् प्रतिप्राप्तम्