"एल्लोरागुहाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
==पीठिका==
एल्लोरा अथवा एलोरा इति प्रसिद्धस्य ऐतिहासिकयात्रास्थानस्य मूलं नाम वेरुल इति । एताः गुहाः[[भारतम्|भारतस्य]] [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] औरङ्गाबादमण्डले सन्ति ।
तासां स्थानीयं नाम ‘[[वेरुललेनी]]’ इति । एल्लोरागुहाः [[राष्ट्रकूटराष्ट्रकूटवंशः|राष्ट्रकूटैः]]वंशीयैः पञ्चमशतकात् तः दशमशतकयोः मध्यभागे निर्मिताः । ताः शिलाकर्तनशिल्पकलाशैल्याः मूर्तरुपाः सन्ति । एल्लोरायाः पर्वतीये प्रदेशे ३४ छिन्नशिलामन्दिराणां समुच्चयः वर्तते । पुरातनीयस्य मध्ययुगीयस्य च [[भारतम्|भारतस्य]] मुख्यभूतानां [[हिन्दुधर्मः|हिन्दु]] - [[बौद्धदर्शनम्|बौद्ध]] - [[जैनदर्शनम्|जैनमतानां]] प्रतिनिधिरुपाः वर्तन्ते इमाः गुहाः । दाक्षिणात्यकलाशैल्याः अन्तिमस्तरीया परिपूर्णता अत्र द्र्ष्टुं शक्या । मानवमनीषायाः अत्यपूर्वा अभिव्यक्तिः जाता अस्ति अत्र । अत्रत्याः ३४ गुहाः अपि वस्तुतः ‘चरणाद्रि’ नामकस्य शैलस्य लम्बरुपशिलायाः उत्खननपूर्वकं निर्मिताः वर्तन्ते । १२ बौद्धगुहाः (१-१२ गुहाः), ५ जैनगुहाः (३०-३४ गुहाः), १७ अन्यदेवगुहाः (१३-२९ गुह्याः) च एकत्र एव निर्मिताः यत् तत् भारतीयेतिहासस्य धार्मिकसामरस्यं द्योतयति । अत्रत्या अखण्डशिलया उत्खाता महाकैलासगुहा (गुहा-१६) जगत्प्रसिद्धा वर्तते । विविधमतसम्बद्धाः गुहाः एकत्र निर्मिताः यत् तत् भारतीयानां परमतसहिष्णुतायाः प्रत्यक्षम् उदाहरणं वर्तते ।एतेन एव कारणेन १९८३ तमे वर्षे युनेस्कोसंस्थया एल्लोरीयाः गुहाः [[जागतिक पारम्परिकस्थल]]त्वेन घोषिताः ।
 
==परिचयः==
"https://sa.wikipedia.org/wiki/एल्लोरागुहाः" इत्यस्माद् प्रतिप्राप्तम्