"हिन्दुस्थानिशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

New page
 
fix
पङ्क्तिः १:
हिन्दुस्तानीशास्त्रीयसङ्गीतम्
भारतीयसङ्गीतपरम्परायां [[कर्णाटकीय शास्त्रीय सङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतम्]] अपरं हिन्दुस्तानीशास्त्रीयसङ्गीतमिति विभागद्वयम्। उत्तरभारते, पाकिस्तानबाङ्ग्लादेशयोः तथा भागशः [[कर्णाटकम्|कर्णाटकराज्ये]] अस्याः सङ्गीतशास्त्रपरम्परायाः प्रचुरता दृश्यते। भारते ''' शृतेरिवार्थं स्मृतिरन्वगच्छत् ''' इति वचनानुसारेण हिन्दुस्तानीशास्त्रीयसङ्गीतं सामवेदसम्प्रदायम् अनुसरति इति विश्वासः। उत्तरभारते १३-१४ शतकयोः [[नवदेहली|देहली]]सुल्तानानां मोघल् साम्राज्यस्य च नृपक्रियारब्धा । तदा सङ्गीतमर्मज्ञाः विद्वत्तल्लजाः एतेषां राजाश्रयं प्राप्तवन्तः। एतेषाम् आस्थानेषु भारतीयसङ्गीतस्य पर्षियासंगीतस्य च तत्त्वानि मिलितानि। अयमेव संयुक्तसम्प्रदायः हिन्दुस्तानीशास्त्रीयसङ्गीतमिति प्रथितम्। मोगल् साम्राज्ये अमीर् खुस्रो नाम प्रसिद्धः गायकः आसीत्। अक्बरस्य शासनकाले तान् सेन् नाम प्रसिद्धः गायकः आसीत्। भीमसेनः जोशी हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां विश्वविख्यातः भवति।
==प्रसिद्धाः गायकाः==
[[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतपरम्परायां]] विद्यमानाः सुप्रसिद्धाः गायकाः, [[बडेगुलामलिखान्]], [[सवायी गन्धर्वः]], [[गुरुराव् देशपाण्डे]], [[भीमसेन जोशी]], [[जस् राज्]],[[मल्लिकार्जुनः मन्सूर्]], [[गङ्गूबायी हानगल्]],[[बसवराजः राजगुरु]], [[नस्रत् फते अलि खान् ]] (पाकिस्तान) एते प्राचीनाः भवन्ति। [[विनायकः तोरवि]], [[रषीद् खान्]],[[संजीव अभ्यङ्कर्]] , [[श्रुति साडोलिकर्]] इत्यादयः इदानीन्तनाः प्रसिद्धाः गायकाः भवन्ति।