"वर्षाऋतुः" इत्यस्य संस्करणे भेदः

भारतम् ऋतुनां देशोऽस्ति । अत्र षड् ऋतवो भवन्... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) added Category:कालगणना using HotCat
पङ्क्तिः २:
 
ग्रीष्मस्य तापेन सन्तप्ता पृथिवी वर्षायाः आगमनेन शीतला शान्ता च भवति । आकाशः कृष्णैः मेघैः आच्छन्नः भवति । मेघेषु विद्युत् प्रकाशते । मेघाः गर्जन्ति । वृष्टिजलेन नद्यः, तडागाः कूपाश्च पूरिताः भवन्ति । पृथिवी हरितैर्घासैः आच्छदिता भवति । वृक्षेषु लतासु च नवीनानि पत्राणि आगच्छन्ति । प्रकृतिः शोभना नारीव शोभते । मयूराः मेघान् दृष्ट्वा नृत्यन्ति । मण्डूकाश्च कूर्दन्ति रटन्ति च । वर्षाकालः अतीव लाभदायकोऽस्ति । अस्माकं देशस्य कृषिः मुख्यतः वर्षाजलम् आश्रयति । उत्तमया वर्षया उत्तमा कृषिर्भवति । अस्मिन् ऋतौ श्रीकृष्ण-जन्माष्टमी, रक्षाबन्धनम्, स्वतन्त्रतादिवसादयः उत्सवाः आयोजिताः भवन्ति । वर्षाकालस्य काश्चित हानयोऽपि सम्भवन्ति । एतस्मिन् काले बहवो मार्गाः जलमग्नाः कर्दमयुक्ताश्च भवन्ति । अतिवृष्टेः कारणेन अनेकासु नदीषु जलवृद्धिः भवति । जलप्लवेन गृहाणि, पशवः, मनुष्या अपि नश्यन्ति । अनेके रोगाः अपि उद्भवन्ति । परन्तु जलेन विना जीवनं नैव चलति । अतः वर्षर्तुः प्राणिनां कृते शुभदायकः अस्ति ।
 
[[वर्गः:कालगणना]]
"https://sa.wikipedia.org/wiki/वर्षाऋतुः" इत्यस्माद् प्रतिप्राप्तम्