"रामः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १४:
सीतास्वयंवरानन्तरं श्रीरामःअयोध्यां प्रतिनिवर्तमानः आसीत् । मार्गे भार्गवरामस्य मेलनमभूत् । भार्गवरामः कोपेन श्रीरामेण सह योद्धुम् उद्युक्तः । श्रीरामः तेन सह युद्धं कृत्वा तं जितवान् । सन्तुष्टः भार्गवरामः श्रीरामाय वैष्णवधनुः दत्तवान् ।
 
== वनवासगमनम् ==
== पितृवाक्यपरिपालनम् ==
रामस्य विवाहानन्तरं [[दशरथः]] श्रीरामाय यौवराज्याभिषेकं कर्तुम् उद्युक्तः । परं तत्समये [[मन्थरा]]याः दुष्प्रेरणया [[कैकेयी]] पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय [[भरतः|भरत]]स्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । [[दशरथः]] तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । [[सीता]] [[लक्ष्मणः|लक्ष्मण]]श्च तम् अनुसृतवन्तौ ।
 
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्