"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
== [[रावणः|रावण]]वधः ==
[[सीता]]पहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन [[सीता]]न्वेषणकार्यमारब्धवान् । [[हनूमान्|हनूमता]] [[श्रीलङ्का|श्रीलङ्कायां]] सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् ।दुष्टात्मा रावणस्य विनाशः जातः। सीतायाः मुक्तिः [[अयोध्या|अयोध्यायां]] रामस्य राज्याभिषेकः अभवत् ।
=======================================
 
संक्षिप्तं रामायणम्-
आदौ रामतपोवनादिगमनं,हत्वा मृगं कांचनम्,
वैदेहिहरणं जटायुमरणं,सुग्रीवसम्भाषणम्।
बालिनिग्रहणं समुद्रतरणं,लंकापुरी दाहनम्,
पश्चाद्रावणकुम्भकर्णमरणं,एतद्धि रामायणम्॥
 
रामस्तुतिः-
रामो राजमणिः सदा विजयते,रामं रमेशं भजे,
रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं,रामस्य दासोस्म्यहम्,
रामे चित्तलयो सदा भवतु मे,भोःराम मामुद्धर॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
 
संपादकः
आचार्यः दयानन्दः शास्त्री
 
== आधाराः ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्